वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 376, कुल 490 में से
संदर्भ में पढ़ें३८० वीरमित्रोदयस्य राजनीतिप्रकाशे करिष्ये, तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिवाचनं मातृकापूजनाभ्युदयिकश्राद्धग्रहमण्डपवास्तूपशमनाचार्यादिव- रणानि च तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य, यथाविभवं षो- डशोपचारैर्गणपतिमभ्यर्च्य, यथास्वगृह्यं स्वस्तिवाचनमातृकापूज- नाभ्युदयिकश्राद्धानि विधाय, याज्ञवल्क्याद्युक्तप्रकारेण यथा- विभवं नवग्रहमखं च कृत्वा, वास्तुशान्त्यर्थमाचार्यब्रह्मत्विजः कृत्वा, मण्डपनैर्ऋत्यभागे कुण्डं निर्माय, एकाशीतिपदवास्तुम- ण्डलनिर्माणपुरःसरं मण्डपवास्तुशान्तिं विधाय, जयाभिषेकार्थं पुरोहितमाचार्यं ब्रह्माणमष्टसु कुण्डेषु प्रतिकुण्डं होता ब्रह्मा चे- ति द्वौ द्वौ ब्राह्मणान् वृणुयात् । तत्र— आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ इत्याचार्यवरणे मन्त्रः । यथा चतुर्मुखो ब्रह्मा सर्ववेदधरः प्रभुः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा द्विजपते भव ॥ इति ब्रह्मवरणे । अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया । सुप्रसन्नाः प्रकुर्वन्तु स्वकार्यं विधिपूर्वकम् ॥ इत्यन्येषांम् । सर्वांश्च प्रत्येकमभ्यर्च्य शाखानुसारेण यथा- विभवं मधुपर्केणार्हयेत् । द्वारजापकांश्च तत्तत्काले वरणार्थमु- पकल्पयेत् । यथासम्भवमन्यांश्च साहाय्यार्थम् । सर्वांश्च यथाविभवं वस्त्रालङ्कारादिभिः पूजयेत् । शिल्पिमौहूर्त्तिकादींश्च । तत आ- चार्यो यजमानेन सपत्नीकेन सब्राह्मणेन जलपूर्णकलशह- स्तेन भद्रं कर्णेभिरित्यादिमन्त्रघोषेण मण्डपप्रवेशे पश्चिमतः कृते मण्डपान्तः पश्चिमत उपविश्याचम्य प्राणानायम्य यजमाना-