वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 379, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८३ दमनी चेत्यष्टौ शक्तयः। ततस्तस्यैव दलेषु तेनैव क्रमेण वामदेवः, ज्येष्ठः, रुद्रः, कालः, कलाविकरणः, बलः, बलप्रमथनः, सर्वभूतदम- नश्चेत्यष्टौ रुद्राः स्थाप्याः। इदं च वामादिमिथुनाष्टकं प्रथमावर- णं शिवस्य। एवमग्रेऽपि प्रागादिक्रम एव द्रष्टव्यः। ततो नाभिवी- थ्यनन्तरबाह्यषोडशव्यूहमध्यमकोष्ठेषु सुभद्रादिकाः शिवस्य द्वि- तीयावरणदेवताः स्थाप्याः। तत्र पूर्वे सुभद्रा, आग्नेये भद्रा, द- क्षिणे कनका, नैर्ऋते अम्बिका, पश्चिमे श्रीदेवी, वायव्ये वागीशा, उत्तरे गोमुखी, ऐशाने भद्रकर्णी, पूर्वाग्नेयमध्ये अणिमा, आग्नेय- दक्षिणमध्ये लघिमा, दक्षिणनैर्ऋत्यमध्ये महिमा, नैर्ऋत्यपश्चि- ममध्ये प्राप्तिः, पश्चिमवायव्यमध्ये प्राकाम्यं, वायव्योत्तरमध्ये ऐश्वर्यम्, उत्तरेशानमध्ये वशित्वं, पूर्वेशानमध्ये कामावसायिका। पिशाचवीथ्यनन्तरबाह्यचतुर्विंशतिव्यूहमध्यमकोष्ठेषु प्रागादिक्र- मेण दाक्षाद्याः शिवस्य तृतीयावरणदेवताः स्थाप्याः। ता यथा- दक्षा, दक्षायिका, चण्डा, चण्डायिका, हरा, हरायिका, शौ- ण्डा, शौण्डायिका, प्रथमा, प्रथमायिका, मन्मथा, मन्म- थायिका, भीमा, भीमायिका, शकुनी, शकुनायिका, सुमती, सुमत्यायिका, गोपा, गोपायिका, नन्दा, नन्दायिका, पितामही, पितामहायिका २४ । ततः सुभद्रादिशिवद्वितीयावरणदेवतानां प्रथमद्वितीयावरणदेवतास्तत्कोष्ठबाह्याष्टबाह्यषोडशकोष्ठेषु स्था- प्याः । ता यथा-बिन्दुका, बिन्दुगर्भा, नादिनी, नादगर्भजा, शक्तिका, शक्तिगर्भा, परा, परापरा, सुभद्राप्रथमावरणम्१। चण्डा, चण्डमुखी, चण्डवेगा, मनोजवा, चण्डाक्षी, चण्डनिर्घोषा, भ्रुकुटी, चण्डनायिका, महोत्सवा, मनोध्यक्षा, मानसी, माननायिका, मनोहारी, मनोह्लादी, मनःप्रीतिः, मनेश्वरी १६ सुभद्राद्विती- यावरणम् १। ऐन्द्री, हौताशनी, याम्या, नैर्ऋती, वारुणी, वाय-