वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 43, कुल 490 में से
संदर्भ में पढ़ेंक्षेत्रजादे राज्यानधिकारः । ३९ तथापि को हि अयोगी तद्वेद यदुपर्यधो वा पूर्वं निषेक एकदैवो- भयत्र वेति त्रितयस्यापि वक्तुं शक्यत्वात्। योगी हि प्रजापतिः क्रमं विदित्वा नाम चकारेत्यस्यापि सुवचत्वात् । अत एव यः प्राक्स्वदेहादित्येवोक्तम्, न तूपरिस्थितत्वादेराद्यसम्भूतौ हेतुत्वेनोक्तिः, तस्माज्जन्मनैव ज्यैष्ठ्यमिति दिक् । अथौरसे कनीयस्यपि सति क्षेत्रजादीनां राज्यदाननिषे- धः कालीपुराणे दर्शितः- न क्षेत्रजादींस्तनयाञ्राजा राज्येऽभिषेचयेत् । पितॄणां शोधयन्नित्यमौरसे तनये सति ॥ शोधयन्, ऋणमिति शेषः । औरसे तनये सतीति तत्स- न्तेतेरप्युपलक्षणम्। पुत्रेभ्यो राज्यं विभज्य न देयम्। तथा च- रामायणे, कैकयीं प्रति वाक्यम्- न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु महानविनयो भवेत् ॥ तस्माज्ज्येष्ठेषु पुत्रेषु राज्यतन्त्राणि पार्थिवाः । आसञ्जन्त्यनवद्याङ्गि गुणवत्स्वितरेषु च ॥ तेषु ज्येष्ठेषु पुत्रेषु ज्येष्ठेष्वेव न संशयः । आसञ्जन्त्यखिलं राज्यं न भ्रातृषु कथंचन ॥ इति । गुणवत्स्वितरेष्विति ज्यायसि दोषसद्भावे कनीयसां मध्ये एकस्य कस्यचित् राज्यदाने गुणवत्त्वं हेतुत्वेनोपन्यस्तम् । ज्ये- ष्ठस्यान्धत्वादिदोषसद्भावे न राज्यभाक्त्वम् । तदुक्तम्- महाभारते, नान्धः कुरूणां नृपतिरनुरूपस्तपोधन । तथा,