वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 435, कुल 490 में से
संदर्भ में पढ़ेंदेवीपुराणोक्ताश्विनशुक्लनवम्यां देवीपूजा । ४३९ अथ प्रकारान्तरेणाश्विनशुक्लनवम्यां देवीपूजा । देवीपुराणे, ब्रह्मोवाच । हते घोरे महावीरे सुरासुरभयङ्करे । देव्या उपासका देवाः प्रभूता राक्षसास्तथा ॥ आगता घातितं दृष्ट्वा महिषं तं सुदुर्जयम् । ब्रह्मविष्णुयमेशाना इन्द्रचन्द्रयमानिलाः ॥ आदित्या वसवो रुद्रा ग्रहा नागाश्च गुह्यकाः । समेत्य सर्वे देवास्ते देवीं भक्त्या च तुष्टुवुः ॥ वरं च सर्वलोकानां प्रददौ भयनाशिनी । बलिं ददुश्च भूतानां महिषाजामिषेण तु ॥ पुरेषु शङ्खभेर्य्यश्च शतशोऽथ सहस्रशः । कृता दुन्दुभिनादाश्च पटुशब्दाः समर्दलाः ॥ पताकाध्वजयन्त्रादिघण्टाचामरशोभितम् । तद्दिनं कारयाञ्चक्रुर्देवीभक्ताः सुरोत्तमाः ॥ एवं तस्मिन्दिने वत्स भूतप्रेतसमाकुलम् । कृताथ सर्वदेवैश्च महापूजाथ शाश्वती ॥ आश्विने मासि मेधान्ते महिषारिनिबर्हिणीम् । देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीमुखे ॥ घातयन्ति पशून् भक्त्या ते भवन्ति महाबलाः । बलिं च ये प्रयच्छन्ति सर्वभूतविनायकी ॥ तेषां तु तुष्यते देवी यावत्कल्पं तु शाङ्करम् । क्रीडन्ति विविधैर्भोगैर्देवलोके सुदुर्लभे ॥ नाधयो व्याधयस्तेषां न च शत्रुभयं भवेत् । न च देवग्रहा दैत्या न सुरा न च पन्नगाः ॥