वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 447, कुल 490 में से
संदर्भ में पढ़ेंदेवीपुराणोक्तवसुधाराविधिः । ४५१ स्थूलरूपा तु तैस्तुष्टैस्तुष्टा देवी महाफला । कालादिबलिगन्धादि प्रतिष्ठावच्च कारयेत् ॥ यथासम्पत्ति सम्पन्नः सर्वकालं प्रदापयेत् । तदा मातृग्रहान् भूतान् लोकपालान्निवेशयेत् । हैमान् राजतताम्रान् वा स्वनिवेशोपलक्षितान् ॥ स्वर्णपुष्पबलिगन्धदक्षिणादि यथाक्रमम् । मातृणां लोकपालानां ग्रहाणां च यथाविधि ॥ हृदयेन प्रदेयं च मूलमन्त्रैः पुरातनैः । अथ वा सर्वसामान्यां वैदिकीमपि कारयेत् ॥ अथर्वविधिना वत्स पूर्वोक्तां वा यथा पुरा । प्रभूतमनं नैवेद्यैर्भूरिदक्षिणसंयुतैः ॥ कुर्यान्महाप्रयत्नेन नान्यथा च कदाचन । छेदे भयं विजानीयात्तदर्थं तत्र कारयेत् ॥ महाव्याहृतिहोमेन पात्रमत्र निवेशयेत् । मूलमन्त्रेण देव्यास्तु शृङ्गलं हृदयेन तु ॥ घृतं शिरसो मन्त्रेण शिखया चानुतापयेत् । कवचेन तथा वह्निं रक्षयित्वा प्रदापयेत् ॥ अस्त्रेण नेत्रमन्त्रेण सर्वं सर्वत्र निक्षिपेत् । लोकपालान् ग्रहान्नागान् द्वादशार्धेन पूजयेत् । शिवाद्यान्सनकाद्यांश्च देवाद्यानपि पूजयेत् ॥ नित्येषु च महाप्राज्ञ निमित्तेषु विशेषतः । अग्नेर्वर्णश्च गन्धश्च शब्दश्चाकृतयस्तथा ॥ विकाराश्च तदा वत्स बोद्धव्या सिद्ध्यासिद्धिदाः । तदन्ते वत्स सत्कार्या सर्वकामप्रदायिका ॥ येन सान्निध्यमायाति सर्वहोमेषु मङ्गला ।