भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 458, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 458

४६२ वीरमित्रोदयस्य राजनीतिप्रकाशे मङ्गलालम्भनं कृत्वा धौतवासाः समाहितः ॥ आयुधाभ्यर्चनं कार्यं वाहनाभ्यर्चनं तथा ॥ राजचिह्णार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम् । अनुलेपनमाद्याद्गन्धद्वारेतिमन्त्रितम् ॥ शुभं चन्दनमादद्याच्छ्रीसूक्तेनाभिमन्त्रितम् । श्रियं धातर्मयि धेहि मन्त्रः सुमनसां भवेत् ॥ रायस्पोषेति च तथा मन्त्रोऽलङ्करणे स्मृतः । ततोऽनुलिप्तः सुरभिस्स्रग्वी रुचिरभूषणः ॥ केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत् । वन्हेरुत्तराद्दिग्भागे तथा प्रागुक्तचर्मणाम् ॥ सिंहासनं न्यसेत्पृष्ठे परार्द्ध्यास्तरणैर्युतम् । ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत् ॥ वृषस्य वृषदंशस्य करिणः पृषतस्य च । तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥ ध्रुवा द्यौरितिमन्त्रेण नृपं तत्रोपवेशयेत् । दर्भपाणिस्ततो राजा तथैव च पुरोहितः ॥ तयोर्हस्तगतावग्रे दर्भौ सङ्ग्रन्थयेद्द्विजः । ततः पुरोधा जुहुयाद्ब्राह्मैर्मधुघृतं शुचिः ॥ रौद्रवैष्णववायव्यशाक्रसौम्यैस्सवारुणैः । बार्हस्पत्यैस्ततः कुर्यात्तन्त्रमुत्तरसंज्ञितम् ॥ दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम् । यान्तु देवगणाः सर्वे सानुगास्सपरिच्छदाः ॥ १ अत्र—"अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक् । तेषामेव ततो वह्नौ चतुर्थ्यन्तैस्तु नामभिः ॥ ओङ्कारपूतं जुहुयाद्घृतं बहु पुरोहितः ।” इत्यधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते ।