वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 488, कुल 490 में से
संदर्भ में पढ़ें४९२ वीरमित्रोदयस्य राजनीतिप्रकाशे स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः । आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्य चित् ॥ आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत् । विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥ भीतवत्संविधातव्यं यावद्भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहर्त्तव्यमभीतवत् ॥ योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन् । स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुद्ध्यते ॥ वा शब्द इवार्थे । ये सपत्नाः सपत्नानां सर्वांस्तानुपसान्त्वयेत् । आत्मनश्चापि बोद्धव्याश्चारा विनिहिताः परैः ॥ चारस्त्वविदितः कार्य आत्मनोऽथ परस्य च । पाखण्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥ उद्यानेषु विहारेषु प्रपास्वावसथेषु च । पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥ वेशेषु, वेश्याजनाश्रयेषु । विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना । अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ॥ अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् । भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥ अशङ्क्यं शङ्कानर्हम् पुत्रा वा यदि वा भ्राता पिता वा यदि वा अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।