भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 54, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 54

५२ वीरमित्रोदयस्य राजनीतिप्रकाशे वराहसंहितायामपि, त्रिविधस्तस्योच्छ्रायो हस्तः, पादाधिकोऽर्द्धयुक्तश्च । माण्डलिकान्तरजित्समस्तराज्यार्थिनां शुभदः ॥ इति । तच्च भद्रासनं नूतनमेव कार्यम् । तदुक्तम्— विष्णुधर्मोत्तरे, भद्रासनं च छत्रं च बालव्यजनमेव च । खङ्गं चक्रं तथा चापं रत्नानि विविधानि च ॥ राज्ञो मृतस्य ये त्वासन् सर्व एते नराधिप । न ते कार्या नरेन्द्रस्य तेन दैवविदा तदा ॥ कामं सांवत्सरः कार्योऽह्यलाभेऽन्यस्य भूभुजा । गुणाधिकाश्चेन्नो कार्या येऽन्येऽत्राभिहिता मया ॥ इति । पूर्वे चेद्गुणाधिकास्तदा ये अन्ये कर्त्तव्या इत्यभिहितास्ते नो कार्या इत्यर्थः । तथा तत्रैव, शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि । अभिषिञ्चेत धर्मज्ञः सम्यग्वेदविशारदः ॥ या ओषधीरोपधिभिः श्रुताभिः सुसमाहृतः । ओषधिभिः अष्टौषधिगर्भकुम्भोदकेन । रथे तिष्ठेति गन्धैश्च आब्रह्मन्ब्राह्मणेति च । गन्धैः सर्वगन्धकुम्भोदकेन । बीजैः पुष्पैस्तथासीनं रामं पुष्पवतीति च । बीजैः बीजपूर्णकुम्भोदकेन । पुष्पैः पुष्पपूर्णकुम्भोदकेन । पुष्पवतीत्याथर्वणो मन्त्रः तेनैव चैव मन्त्रेण फलैस्तमभिषेचयेत् ॥ आशुः शिशान इत्येवं सर्वरत्नैश्च भार्गव ।