भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 67, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 67

विष्णुधर्मोत्तोक्तराजाभिषेकप्रयोगः । ६५ अथ भद्रासनगतम्-“तेजोऽसि शुक्रम्”इति घृतपूरितेन हेमकुम्भे- न पूर्वदिगवस्थितेन पूर्वतः स्थित्वा ब्राह्मणामात्योऽभिषिञ्चेत् । क्षीरपूर्णेन रौप्यकुम्भेन दक्षिणतः स्थित्वा क्षत्रियामात्य “आप्यायस्व” इति सिञ्चेत् । “दधिक्राव्ण” इति दधिपूरितेन ताम्रकुम्भेन पश्चिमादिगवस्थितेन पश्चिमतः स्थित्वा वैश्यामात्यो- ऽभिषिञ्चेत् । “मधुवाता” इति त्र्यृचेन मधुपूर्र्णेन मृत्कुम्भे- नोत्तरदिगवस्थितेनोत्तरतः स्थित्वा छन्दोगामात्येऽभिषि- ञ्चेत् । स एव तत्रैव स्थित्वा कुशोदकपूरितेनान्यकुम्भेन “देवस्य त्वा” इति सिञ्चेत् । तत्र पूरणे पूरयामि, अभिषेके अभिषिञ्चामीति मन्त्रे वाक्यशेषः । ततः पुरोहितो वह्निं रक्ष- ध्वमिति सदस्यान् सम्प्रेष्य सम्पातवन्तं सौवर्णं कलशमादाय राजसमीपं गत्वा ब्राह्मणस्वरयुतैः शङ्खभेर्यादिशब्दयुतै राजसू- यगतराजाभिषेकमन्त्रैरभिषिञ्चेत् । ते यथा-“सोमस्य त्वा द्यु- म्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण । क्षत्राणां क्षत्रपतिरेद्ध्यति दिद्यून्पाहि” । “इमं देवा असपत्नं सुवद्धं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्म- णानां राजा”इति याजुषाः । इममित्यत्र द्वितीयान्तं राजनाम । अमुष्येत्यत्र षष्ठ्यन्तं तत्पितृनाम । अमुष्या इत्यत्र षष्ठ्यन्तं तन्मातृनाम। आर्ग्वेदिकास्तु “इमा आपः शिवतमा”इति तृचः । “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम- ग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि । बलाय श्रि- यै यशसेऽन्नाद्याय”इति यजुः । भूर्भुवः स्वरिति व्याहृतय इति । एवमन्येऽपि तत्तच्छाखीया द्रष्टव्याः। ततः पुरोहितः कुण्डसमीपं गच्छेत् । ततः सुगन्ध्युद्वर्त्तनद्रव्येणोद्वर्त्तिताङ्गं भद्रासनगतमेव रा- ९