वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 83, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ८१ शुक्तिमती सिनीवाली मण्डूणी कृपिका कपूः ॥ तापी पयोष्णी निर्विन्ध्या सिता च निषधावती । वेणा वैतरणी भीमा मन्दुश च तथा कुहूः ॥ तोया चैव महागौरी दुर्गतिर्मिङ्गिला तथा । गोदावरी भीमरथी कृष्णवेणाथ बञ्जरा ॥ तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च । कृतमाला ताम्रपर्णी पुष्पभद्रोत्पलावती ॥ नृसमा ऋषिकुल्या च इक्षुका त्रिदिवालया । लाङ्गुलिनी वंशधरी जम्बूश्च सुकलावती ॥ ऋषिका वरवेगा च मन्दगा मन्दवाहिनी । क्षमादेवी दया व्योमा पयोष्णी कालवाहिनी ॥ कम्पनो च विशाला च करतोया युवाहिनी । ताम्रारुणा वेत्रवती सुभद्रा चाश्ववत्यपि ॥ अहिणीका इमा चैव सुप्रकारा हिरण्मयी । आपगा लोपलाभासी सन्ध्या तु वडवा नदी ॥ महेन्द्रवाणा शाला च मीलिका वलयावती । नीलोद्धतकरा चैव बाहुदा वनवासिनी ॥ नन्दा चैवोपनन्दा च वरदा च सुवासिनी । एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विविधोदकाः ॥ सर्वपापप्रशमनाः सर्वलोकस्य मातरः । स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥ एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् । ससागरां भुङ्क्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु ॥ इत्यभिषेकमन्त्राः । ११