वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 91, कुल 490 में से
संदर्भ में पढ़ेंस्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानी- मित्यन्नं वा इळान्नमेवास्मा एत ऊर्जस्वच्छश्वद्भवति तस्मै विशः स्वयमेवानमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैतत्स्वयमुपनम- न्ति यस्मिन् ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्र- तीतो जयति सन्धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृ- व्या जन्यानि तानप्रतीतो जयत्यवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो वसीयः करोत्येव तदाह ब्रह्मणे राजा तमवन्ति देवा इति पुरोहितमेवैतदभिवदति । (पं० ८ अ०५ खं०२६) द्रढयति-तदप्येतदृषिणोक्तमित्यादिना । तदस्य माहात्म्य- मृषिणा मन्त्रदर्शिनोक्तं तिसृभिर्ऋग्भिः । तत्राद्यामृचमुदाहरति- स इदिति । स इत्, स एव पुरोहितयुक्तो राजा । प्रतिजन्यानि प्रतिपक्षबलानि । विश्वा, सर्वाणि । शुष्मेण, वीर्येण स्वकी- येन । अभितस्थौ, अभिभवति । "छन्दसि परेऽपि” इत्यमेः परप्रयोगः । अमुमेवार्थं सपत्नेत्यादिना वक्ति । सपत्ना, अस्यैव व्याख्या द्विषन्तो भ्रातृव्या इति । तान् सपत्नान्, जन्यानि बलानि च । बृहस्पतिं बृहस्पतिसमम् । सुष्ठु हितोपदेशादिना राजानं बिभर्त्ति स सुभृत् तं पुरोहितं यो राजा बिभर्त्ति पो- षयति । अस्यार्थवादो बृहस्पतित्यादिना । तं बृहस्पतिम् । अनु पश्चात् । पुरोहितं य इति पठितव्ये बृहस्पतिमिति प- ठितम् । पूर्वभाजम्, हितविचारेण पूर्वभजनयुक्तं पुरोहितम् । व- ल्गूयति, अर्चयति । वन्दते, नमस्करोति । अनेनास्मा अस्मिन्ने- वापचितिं पूजामाह । द्वितीयामृचमुदाहरति-स इदिति । स इत्, सपुरोहितो राजा । स्वे, स्वकीये । ओकसि, गृहे । सुधितः सुप्रीतः। क्षेति,वसति । तस्मै,पुरोहितसहिताय राज्ञे । इळा, अन्नम् ।