वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 97, कुल 490 में से
संदर्भ में पढ़ेंऐतरेयब्राह्मणोक्तो राजाभिषेकः । ९७ वस्थितग्रीवेण । क्षत्रं शूरः । आरण्या हरिणादयः । अथ यद्दधि मधु घृतं भवत्यपां य ओषधीनां रसोऽपामेवा- स्मिंस्तदोषधीनां रसं दधात्यथ यदातपवर्ष्या आपो भवन्ति ते- जश्च ह वै ब्रह्मवर्चसं चाऽऽतपवर्ष्या आपस्तेज एवास्मिंस्तद्ब्रह्म- वर्चसं च दधाति । ( पं० ८ अ० २ खं० ८ ) दधिघृतयोः पशुभक्षिततृणोदकजन्यत्वादोषधिरसत्वम् । मधुनोऽपि मधुकरानीतपुष्परसत्वात् । अपाम् आतपसम्बन्धा- त्तेजस्त्वम्, फलोत्पादनाद्ब्रह्मवर्चसत्वम् । आतपवर्ष्याः आत- पयुक्तवर्षाभवा आपः । बृहदिति वक्ष्यमाणमन्त्रेणाभिमन्त्रयेदित्युकम्, तस्यार्थः- बृहदादीनि सामानि । प्राचीनातानाः प्राक्प्रत्यगायताः । मौञ्जास्तन्तवः । तिरश्चीनवायाः तिर्यक्प्रोतास्तन्तवः । अती- काशा रज्ज्वन्तराच्छाच्छिद्राणि । यशः कीर्त्तिः । उपबर्हणं शिरस उपधानम् । एनं राजानम्, आरोहयेत् पुरोहितः, वसवस्त्वे- त्याद्यारोहान्तेन मन्त्रेण । वस्वादयो देवा गायत्र्यादिभिश्चन्दो- भिस्त्रिवृदादिस्तोमै रथन्तरादिसामभिश्च सह हे आसन्दि त्वां आरोहन्तु । तान् अनु पश्चात् त्वम् आरोह । स्वावशं स्वाधी- नत्वम् । राजकर्त्तारः पितृव्यभ्रात्रादयः, परस्परमिदम- ब्रुवन् । यथा वन्दिनो गुणानुवादेन कीर्त्तनम्, एवमत्रापि गु- णकीर्त्तनमभ्युत्क्रोशनं तेन रहितोऽनभ्युत्क्रुष्टः । वीर्यं परभीति- जनकं पराक्रमम्, उत्क्रोशाम, कीर्त्या उद्घोषयाम, इति विचार्य, तथेत्यङ्गीकृत्य । अभ्युत्क्रोशनप्रकारः-इममिति । भो जना लोका, इमं क्षत्रियम्, अभ्युत्क्रोशत उद्घोषयत । कीदृशम् । सम्राजं सम्राट्स्वरूपम्, अत एव साम्राज्यं कर्त्तुमर्हति । एवं स्वराजादि । भोजं भोक्तारम् । भोजपितरं भोगपालकम् । क्षत्रं क्षत्रियजा- १३