विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 255, कुल 1001 में से
संदर्भ में पढ़ेंपरतन्त्रा हि सा मता ॥ तस्माद्राज्यं प्रशंसन्ति तत्राज्ञा न विहन्यते ॥ ५ ॥ तुल्यधातुशरीराणां तुल्यावयवजीविनाम् ॥ नरेन्द्रणां नरैर्बह्वैर्नृ- ववद्दुर्भिवि मन्यते ॥ ६ ॥ राज्यदां द्वादशीं तस्मात्कर्त्तुमर्हसि मे भवान् ॥ यामुपोष्य महद्राज्यं प्राप्तुपालस्तु वै द्विजः ॥ ७ ॥ मार्कण्डेय उवाच ॥ शृणुष्वावहितो राजन्द्रादशों शुभां ॥ यामुपोष्य नरो लोके राज्यमाप्नोत्यकण्टकम् ॥ ८ ॥ मार्गशीर्षस्य मासस्य शुक्लपक्षे नराधिप ॥ दशम्यां प्रयतंः कृत्वा स्नानमभ्यङ्गपूर्वकम् ॥ ९ ॥ उपवासस्य संकल्पं शोभतस्तु तु कारयेत् ॥ देवागारे कुशास्तीर्णेामिकत्वोचोत्तर च्छदाम् ॥१०॥ अध्यासीत महीं तत्र तां रात्रिं प्रयतो नयेत् ॥ द्वितीयेऽह्नि ततः कुर्याद्विद्विः स्नानमतन्द्रितः ॥ ११ ॥ पूजनं देवदेवस्य सर्वं शुक्लेन कारयेत् ॥ कर्पूरं चन्दनं देयं मल्लिका श्वेतयूथिका ॥ १२॥ जात्या च शुक्ला राजेन्द्र धूपे कर्पूरमेव च ॥ घृतेन दीपा दातव्या शुक्लबर्त्तिसमन्विताः ॥ ॥ १३ ॥ घृतोदनं दधि क्षीरं परमान्नं तथैव च ॥ इक्षुर्मिक्षुविकारांश्च देवदेवं निवेदयेत् ॥ १४ ॥ कालोद्भवं मूलफलं वर्णं तत्र न चिन्तयेत् ॥ यथालाभेन तद्देयं शुक्लं चेत्स्याद्विशेषतः ॥ १५ ॥ हवनं च ततः कार्यं परमान्नेन पार्थिव ॥ तद्विष्णोः परं इत्येव होममन्त्रो विधीयते ॥ १६ ॥ द्वादशाक्षरकं मन्त्रं श्रीशूद्रस्य विधीयते ॥ ततोऽग्निहवनं कृत्वा शक्त्या सम्पूज्य च द्विजान् ॥ १७ ॥ सितेनेन कर्तव्या भूमिशोभा सुरालये ॥ रात्रौ जागरणं कार्यं गीतं नृत्यं च पार्थिव ॥ १८ ॥ कर्मणा चैव देवस्य कर्तव्यं श्रवणं तथा ॥ द्वादश्यां विधिनानेन भूयः पूज्यो जनार्दनः ॥ ॥ १९ ॥ राजलिङ्गं प्रदातव्यमेकं विधाय दक्षिणा ॥ ततस्तु पश्चाद्भोक्तव्यं हविष्यं पार्थिवोत्तम ॥ २० ॥ एकादशी यथा मध्ये स्नानयोरन्तरे नृप ॥ कष्टं मौनं तु कर्तव्यं जप्यं कार्यं तु मानसम् ॥ २१ ॥ द्वादशीष्वेव सर्वासु सर्वस्वंवाविशेषतः ॥ विधिमन्तत्त्वयं निर्दिष्टः कृष्णास्वेवं च कारयेत् ॥ २२ ॥ विशेषं ते प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ रक्तवर्णेन कर्तव्या देवपूजा यथाविधि ॥ २३ ॥ रक्तं च देयं नैवेद्यं पुष्पगन्धानुलेपनम् ॥ तिलतैलेन दीपाश्च महारजनरञ्जिताः ॥ २४ ॥ दीपैषु वर्तयो देया होमः कार्यस्तथा तिलैः ॥ भूमिशोभा च कर्तव्या रक्तैश्चैवालवर्णकैः ॥ २५ ॥ अनेन विधिना कृत्वा राजन्संवत्सरं ततः ॥ कार्तिक्यां समतीतायां कृष्णा या द्वादशी भवेत् ॥ २६ ॥ व्रतावसाने तस्यां तु महावर्त्तिं तु दापयेत् ॥ वाससा च समग्रेण तुलया च घृतस्य वै ॥ २७ ॥ ब्राह्मणाय प्रदातव्या धेनुः कांस्योपदोहना ॥ हेमशृङ्गी रौप्यखुरा मुक्तालांगूलभूषिता ॥ २८ ॥ वस्त्रोत्तरीया दातव्या शक्त्या द्रविणसंयुता ॥ संवत्सरेण राजा स्यान्नरः
१ ‘बहु’ इति ख० । २ ‘वर्णं’ इति क० । ३ ‘परमं पदम्’ इति क० । ४ ‘रात्रि’ इति ख० । ५ ‘खुरे रौप्यैः’ इति ख० ।