भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 414, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 414

वि० ध० । द्वि० खं० अ० २२ ॥१८३॥ । ॥१८४॥

विद्युत्पर्णा तिलोत्तमा ॥ अद्रिका लक्ष्मणा क्षेपा असिता रुचिका तथा ॥ ६७॥ सुहेमा चाथ हेमा च शाद्वली च वपुस्तथा ॥ सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा ॥ ६८॥ पुण्डरीका सुदाना चासुदाना सुवसा तथा ॥ हेमा शारद्वती चैव सुवृता कमलालया ॥६९॥ सुकुचों हंसपादी च वारुणी रतिलालसा ॥ एतास्त्वामभिषिञ्चन्तु राजनप्रसरः शुभाः ॥ ७०॥ प्रह्लादश्च महातेजास्तथा राजनविरोचनः ॥ बलिवर्णोपनामत्थान्ये च दितिसुताः समागताः ॥ ७१॥ अभिषिञ्चन्तु दैत्यास्त्वां दिव्यैर्नाद्यैरथाम्भसा स्वयम् ॥ विप्रचित्तिर्मुखैः सर्वै दानवास्त्वां समागताः ॥ ७२ ॥ अभिषिञ्चन्तु राजेन्द्र राजन्द्र राजशार्वण सम्बरः ॥ हेतिश्च प्रहेतिश्च माली शङ्कस्तथैव च ॥ ७३ ॥ सुकेशौ पौरुषेयश्च यज्ञा पुरुषाधमः ॥ विद्युत्स्फूर्जस्तथा व्याधो वधश्च स्मनस्तया ॥ ७४ ॥ एते त्वामभिषिञ्चन्तु समागम्याथ राक्षसाः ॥ सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा ॥ ७५ ॥ काण्डभिः पञ्चमश्चैव मणिमाल्यथास्तित था ॥ सर्वाभूतः शंखश्च पिङ्गलाक्षस्तदस्तथा ॥ ७६ ॥ यशा मन्दरशोभा च पञ्चचन्द्रप्रभङ्गराः ॥ मेघवर्णः सुभद्रश्च प्रद्योतश्च महाद्यसः ॥ ७७॥ द्युतिमान्केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥ श्वेतश्च विपुलश्चैव पुष्पवन्तो जयावहः ॥ ७८ ॥ पद्मवर्णो वलाक्षश्च कुमुदश्च वलाहकः ॥ पद्मनाभः सुगन्धश्च प्रवरो विजयः कृतिः ॥ ७९ ॥ पूर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥ एते त्वामभिषिञ्चन्तु राजन्यक्षन्द्र सत्तमाः ॥ ८० ॥ शंखपद्मस्तु राजेन्द्र मकरः कच्छपस्तथा ॥ एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥ ८१ ॥ पलगल्लाक्षैवं वक्राक्ष ये च मूर्ची मुखा नृप ॥ दुःखपूर्णा विषादाश्च ज्वलनाङ्गारकास्तथा ॥ ८२ ॥ कुष्मपाताः प्रतुण्डाश्च तपवीरा उलूबलाः ॥ अकर्णाश्च कृपण्डाश्च तथा ये पात्र पाणयः ॥ ८३ ॥ पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ॥ एते त्वामभिषिञ्चन्तु पिशाचानाञ्च जातयः ॥ ८४ ॥ ब्रह्मत्वं स्थिता दान्ताः सर्वज्ञाः सर्वदर्शिनः ॥ नानाप्रकारवदना नानाबाहुशिरोधराः ॥८५॥ चतुष्पथपुराह्लालशून्यालयनिकेतनाः ॥ मधूत्वं भवेर्देवे ये गता मनुजेश्वराः ॥ ८६॥ ते त्वामभिषिञ्चन्तु भूता भूतपतेः स्वयम् ॥ महाकालं पुरस्कृत्य नरसिंहं च मातरः ॥ ८७ ॥ सर्वास्त्वामभिषिञ्चन्तु राजराज्य नराधिप ॥ गृहः स्कन्दो विशालश्च नैगमेयस्तथैव च ॥ ८८ ॥ अभिषिञ्चन्तु राजेस्त्वां सर्वं स्कन्दग्रहाः शुभाः ॥ डाकिन्यो याश्च योगिन्यः खेचरीभूचरीश्च याः ॥ ८९ ॥ सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥ गरुडश्चारुणश्चैव आरुणिथ महायशाः ॥ ९० ॥ संपाती विनतश्चैव विष्णुगन्धः कुमारकः ॥ एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ॥ ९१ ॥ अनन्तश्च महानागः शेषो वासुकिस्तक्षको ॥ सुपर्णोश्च कुम्भश्च


१ ‘पुष्पदकः’ इति ख० । २ ‘फगालोक्षैव’ इति ख० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 414, कुल 1001 में से · BharatKosha