विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 591, कुल 1001 में से
संदर्भ में पढ़ेंति जपेज्जीवितुं तु सुकर्मणा ॥ ९ ॥ अविक्रेयं च विक्रेयं जपेद् घृतवतीत्विति ॥ अप्यानानो देवसवितो ज्ञेयं दुःस्वप्ननाशनम् ॥ १० ॥ त्रातारमि- न्द्रमित्येव महिम्नीणामसौस्म्विति ॥ उदुत्तमं वरुणपाशैरायुष्याणि जपेत्सदा ॥ ११ ॥ शुक्रचन्द्रेति जाप्येन पूतो भवति मानवः ॥ १शुद्धामुद्धाीयमे- तच्च तवोचोसूक्तमेव च ॥ १२ ॥ न्यग्रोधशृङ्गमादाय शरन्मूले तथैव च ॥ त्रिवृतं तु मणिं कृत्वा जुहुयाच्च सहस्रशः ॥ १३ ॥ वांच्यांसिगिरिति मन्त्रेण घृतं राम यथाविधि ॥ अभ्यज्य घृतशेषेण मलक्लालबन्ध इष्यते ॥ १४ ॥ द्रोणां यासां तु गर्भाणि पतन्ति भृगुसत्तम ॥ २बंणिज्जातस्य बालस्य बध्नीयात्तदनन्तरम् ॥ १५ ॥ गोर्व स्वरूपवत्सायाः शुक्लाया जुहुयाद्धृतम् ॥ उग्रप्रिया तु शरणं मन्त्रज्ञानेन मन्त्रवित् ॥ १६ ॥ रक्षसा मुच्यते जन्तुर्मणिं शिरसि धारयेत् ॥ कौत्स्यं घृतं तु प्राश्नीयान्नित्यमेव विचक्षणः ॥ १७ ॥ विश्वापृतनिति मन्त्रेण व्याधिभिर्विप्रमुच्यते ॥ चर्षणीधृतमंतेन घृतं हुत्वा यथाविधि ॥ १८ ॥ ४शतायार्मिर्मां बद्धा न सर्पः परिवेष्यते ॥ समत्यायन्त्वितीति जपेन्न ध्रियेत पिपासया ॥ १९ ॥ दृष्ट्राहोत्रितयं जप्त्वा सलिले नाप्नुयाद्भयम् ॥ त्वममा ओषधींत्वन्तज्जप्त्वा व्याधिं न चाप्नुयात् ॥ २० ॥ यते पयांसि पूर्वेण ग्रासं वै प्रक्षिपेन्मुखे ॥ निर्निरेदुरितेनप्रतिरुत्यारोग्यमाप्नुयात् ॥ २१ ॥ देवव्रतेन हुत्वाज्यमुच्छेषेण विचक्षणः ॥ कण्वीं रकमध्यञ्च ३दण्डहस्तगतेन तु ॥ २२ ॥ स्वस्तिमास्तेन भवति यत्र क्वचन गच्छति ॥ पथि देवव्रतं जप्त्वा भयेभ्यो विप्रमुच्यते ॥ २३ ॥ यदिच्छ्रो अनयत्वेति हुतं सौभाग्यवर्धनम् ॥ भद्रोभो अग्निरिति च दन्तकाष्ठं च भक्षयेत् ॥ २४ ॥ संवत्सरमग्निहोत्र- न्मध्वाज्यसहितं सदा ॥ सौभाग्यं महदाप्नोति यत्र क्वचन गच्छति ॥ २५ ॥ भगो न चित्र एतेन नेत्रयोरञ्जनं स्मृतम् ॥ सौभाग्यवर्धनं राम. नात्र कार्या विचारणा ॥ २६ ॥ जपन्त्रिन्द्रेति वर्गं च तथा सौभाग्यमाप्नुयात् ॥ करिप्रियो दिवः कविः काम्यां संश्रावयेश्रियम्यः ॥ २७ ॥ सा तं कामयते राम नात्र कार्या विचारणा ॥ रयन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनम् ॥ २८ ॥ यशसामेति जुहुयात्पुष्पेण तु प्रियङ्ककम् ॥ यशसा योगमाप्नोति कर्मणानेन मानवः ॥ २९ ॥ प्राशयेदङ्गुलकं नित्यं वचाचूर्णं घृताप्लुतम् ॥ इन्द्रमिन्द्राधीनं जप्त्वा भवेच्छ्रुतिधरस्त्व- सौ ॥ ३० ॥ हुत्वा रथन्तरं जप्त्वा पुत्रमाप्नोत्यसंशयम् ॥ गीर्वाणः पाहि सततं जातं स्याद्वलतारकम् ॥ ३१ ॥ मयि श्रीरिति मन्त्रेण जातव्यं श्रीविवर्धनम् ॥ द्वानावशिति देवोऽपि मन्त्रेणानेन धर्मवित् ॥ ३२ ॥ क्रीत्वा घृतं तु पुष्पेण सुषुमाणीत्यतः पिबेत ॥ अलक्ष्मीनाशनं कर्म
१ 'शुद्धामुद्धां इसे तच्च' इति क० । २ 'बोध्यङ्गिणिति' इति ख० । ३ 'पाणौ' इति ख० । ४ 'शतपारम्' इति ख० ।