भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 593, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 593

अभि त्वा पूर्वपीतं ये वषट्कारसमन्वितम् ॥ बाधैकैधम् सहस्रं तु हुतं युद्धे जयप्रदम् ॥ ५८ ॥ हस्त्यश्वरूपाण्युत्कुर्याद् बुधः पिष्टमया- ञ्जुहुयान् ॥ परकीयानथोद्दिश्य प्रधानपुरुषांस्तथा ॥ ५९॥ स्वस्त्यश्नापिष्टपचने सुरेणोत्कृत्य भागशः ॥ अभिभूरसि शूर नो तमो मन्त्रेणानेन मन्त्र- वित् ॥ ६० ॥ कृत्वा सर्षपतैलाक्तान्क्रोधेन जुहुयात्ततः ॥ एतत्कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् ॥ ६१ ॥ आषाढ्यां पौर्णमास्यां तु सोप- वासो विचक्षणः ॥ सायं धान्यानि वस्त्राणि सस्यानि तोलयेद् बुधः ॥६२ ॥ इध्ममिद्धेवतामन्त्रे मन्त्रेणामन्त्रयेत्तु ताम् ॥ पूजितां वासयेद्रात्रौ देशे परमपूजिते ॥ ६३ ॥ देशानां भूमिपालानां तथा देवचतुष्पदाम् ॥ मृन्मयानां तु कर्तव्यं तथा राज्याधिवासनम् ॥ ६४ ॥ तुलितानां द्वितीयोऽह्नि तत्तद्वृद्धि प्रवर्धने ॥ हीनस्य क्षयमादेश्यं समस्य समता तथा॥६५॥ गोव्रतं तु बुधः कुर्यादादौ मासचतुष्टयम् ॥ ततस्त्वरण्यं प्रविशेत्तत्र कुर्याज्जपं शुभम् ॥६६॥ तपः सहस्रमासाद्य जाहूतेतिदिति वै सदा ॥ सहस्रकृत्वस्तु जपेत्सप्तरात्रये गते॥ ६७॥मनसा कांक्षितान्कामानवाप्नोति मानवः॥ अन्तरिक्षेण वा याति रूपान्यत्वं करोति वा ॥६८॥ अदृश्यत्वमवाप्नोति दैत्यत्वमय वा पुनः ॥ तंतं काममवाप्नोति यंयं वा मनसेच्छति ॥६९॥ सामस्तु देवतां ज्ञात्वा तेन साम्ना तु देवताम् ॥ आराधयेत्सुप्रसन्ना साम्ना स्यात्संशयं विना॥७०॥अमुष्मु पूर्व तु सदा मन्त्रमावर्तयंच्छुचिः ॥ चन्दने- नाङ्गुलितांगो जातिपुष्पधरस्तथा ॥ ७१ ॥ श्वेतोष्णीषः श्वेतवासाः सर्वान्कामानवाप्नुयात् ॥ एवं दुर्द्दुकैंत्येतत्सोपवासस्तु यो जपेत् ॥ ७२ ॥ अक्षतैः सुमनोभिश्च तथा वा गौरसर्षपैः ॥ अवकीर्य शुभं देशं त्वेककी प्रजपेन्निशि ॥ ७३ ॥ वाग्यतस्तु तथा स्वप्ने पश्यतीति शुभाशुभम् ॥ यथावद्भृगुशार्दूल भविष्यद्भूतमेव वा ॥ ७४ ॥ भारुण्डं वामदेव्यं च रथन्तरबृहद्रथौ ॥ सर्वपापप्रशमनाः कथिताः संशयं विना ॥ ७५ ॥ साम्नां विधिरिते कथितो नृवीर संक्षेपतः कर्मकरो मयैषः ॥ आथर्वणं वच्मि निबोध तन्मे चेतः समाधाय महानुभाव ॥ ७६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सामविधिकथनन्नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥ ॥ पुष्कर उवाच ॥ शान्तातितं गणं हुत्वा शान्तिमाप्नोति मानवः ॥ भेषज्यं च गणं हुत्वा सर्वान्रोगान्प्रव्यपोहति ॥ १ ॥ त्रिषस्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ॥ क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयं गणम् ॥ २ ॥ न क्वचिज्जायते राम गणं हुत्वा पराजयः ॥ आयुष्यं च गणं हुत्वा चापमृत्युन्वपोहति॥३॥ एते दशगुणाश्चैव होतव्याः स्युर्यथाक्रमम् ॥ अष्टादशसु धर्मज्ञ दशशान्तिषु भार्गव ॥ ४ ॥ वैष्णवी च तथा चैन्द्री ब्राह्मी रौद्री तथैव च ॥


१ 'तः' इति क० ख० ।
२ 'र्भिदेवताम्' इति ख० ।