भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 674, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 674

तथा ॥ ८ ॥ प्रादुर्भावगतो विष्णुरर्च्यो देवगणैस्तथा ॥ आदितः सन्निहितो भवतीति विनिश्चयः ॥ ९ ॥ देवस्य द्विविधा मूर्तिः परा चैव तथापरा ॥ पराख्या पौरुषी मूर्तिः पञ्चभूतविवर्जिता ॥ १० ॥ तया समस्तिर्भवति सर्वगः परमेश्वरः ॥ पुरुषेण विना लोके न किंचिदिह विद्यते ॥ ११ ॥ अनादिमध्यनिधनस्सर्वमयस्ततस्तथा ॥ सर्वेन्द्रियमनाः शक्तिः सर्वतः स तथा नृप ॥ १२ ॥ प्रादुर्भावगतस्यापि तस्य या सर्वशक्तिता ॥ इच्छतः सा विनिर्दिष्टा न त्वेषानिच्छतो नृप ॥ १३ ॥ पुरुषत्वे ह्यनन्तस्य या राजनूर्ध्वशक्तिता ॥ निसर्गसिद्धा सा ज्ञेया सदा सर्वत्र यादव ॥ ॥ १४ ॥ आवाहनमथत्रापि क्रियते भुजगन्पतेः ॥ नित्यं संनिहितस्यापि सर्वत्र परमेष्ठिनः ॥ १५ ॥ केवलं कारणं तत्र मन- स्संतुष्टिकारणम् ॥ आवाहनाहतो मया देवः स्थाने संनिहितोऽपि च ॥ १६ ॥ आवाहनं स्तुत्यर्थं पुरुषस्य यथा स्थितम् ॥ तथान्यत्सर्वं महाभाग स्तुत्यर्थं प्रयोजनम् ॥ १७ ॥ नित्यतृप्तस्य किं तस्य कार्यं भवति चार्चया ॥ १८ ॥ केवलं भक्तितुष्ट्यर्थं स भक्तेभ्यः प्रतीच्छति ॥ योऽसावर्च्यते देवो यत्र देवोच्यते बुधैः ॥ १९ ॥ अर्च्यते च यैर्भावैः सर्वं तद्विद्धि तन्मयम् ॥ तस्याङ्गीकरणं विद्धि कर्तृप्रीतिप्रयोजनम् ॥ २० ॥ ज्ञेयं तथैव चात्मानं तस्य सर्वगतस्य तु ॥ अनादिकारणं तेन नित्यतृप्तेन यादव ॥ २१ ॥ अनुग्रहार्थं भक्तानां चात्मनः संप्रवर्तितम् ॥ अशरीरः शरीरस्थो यथा भवति सुप्ते ॥ २२ ॥ भक्तक्लेशप्रबोधार्थं तथैवावाह्यते त्वसौ ॥ अनाकारं महाराज लक्ष्यबन्धस्तु दुष्करः ॥ २३ ॥ साकारंलक्ष्यबन्धस्तु कर्तुं वै शक्यते सुखम् ॥ विविधस्तथाकारः प्रादुर्भावगतस्य हि ॥ २४ ॥ मयोक्तो गजशार्दूल पुरस्तादेव शाश्वतः ॥ भावो भवतु यो यस्मिन्भावनायां भवेन्नरः ॥ २५ ॥ तत्रैव भावनातेन कार्या चार्चा च यादव ॥ २६ ॥ आदौ कृत्वा महाभाग साकारे लक्ष्यबन्धनम् ॥ २६ ॥ ततः समर्थो भवति शून्ये ध्याने नरोत्तमः ॥ एवमावाहनं तस्य तथा पूजा च यादव ॥ २७ ॥ प्रबुद्धः क्रियते यत्नादात्मनाऽनुग्रहकारणम् ॥ नित्यतृप्तो न तृप्त्यर्थमुपहारं प्रयच्छति ॥ २८ ॥ प्रतीच्छति महाराज सत्वात्तुमनुकम्पकः ॥ मोक्ष- प्राप्तावुभावेतौ त्वया ज्ञेयौ महाभुज ॥ २९ ॥ ज्ञानमार्गः क्रियामार्गः श्रुतो यश्च निराशिषः ॥ तत्रबन्धाय भवति सकामेन क्रिया कृता ॥ निष्कामा येन कृता सैव मोक्षायैव विधीयते ॥ ३० ॥ आवाहनाहिताः संन्निहितास्तथैव भवन्त्यवश्यं नृप मन्युयुक्ताः ॥ स्वस्तुष्टये देववरस्य विष्णोरावाहनं वैत्र बुधैः प्रदिष्टम् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आवाहनप्रयोजनवर्णनो नामषष्टीत्तरशततमोऽध्यायः ॥ १०८ ॥ वज्र उवाच ॥ मानवस्तोमविधिमाचक्ष्व । तमुवाच भगवान्मार्कण्डेयः । अधिवासितो भगवानग्निं प्रज्वाल्य परिसमूह्याज्येन विलीनेनाज्येन