विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 676, कुल 1001 में से
संदर्भ में पढ़ेंप्राणतस्करं रतिवल्लभम् ॥ प्रद्युम्न त्वमिहाभ्येहि परसैन्यविनाशन ॥ १३६ ॥ अष्टमावाहयिष्यामि अनिरुद्धं जगद्गुरुम् ॥ बाणासुरमहासैन्यसमुद्रबडवानल ॥ १३७ ॥ अनिरुद्ध त्वमभ्येहि महाबलपराक्रम ॥ खङ्गपाणे महाभाग उषाहृदयवन्दन ॥ १३८ ॥ साम्बमावाहयिष्यामि गदापाणिं महाबलम् ॥ एहि साम्ब महाभाग नाशितारिशेषदानव ॥ १३९ ॥ अष्टमावाहयिष्यामि युयुधानं बलोत्कटम् ॥ युयुधान त्वमभ्येहि दीर्घबाहोदरीमर्दन ॥ १४० ॥ अष्टमावाहयिष्यामि सौम्यमपराजितम् ॥ वसुभद्रं च धर्मज्ञं नीलाम्बरधरादुभौ ॥ १४१ ॥ वासुदेवप्रतीहारो पाशहस्तो सुलौचनौ ॥ ततश्चामुण्डदाकारौ महाबलपराक्रमौ ॥ १४२ ॥ सुभद्र शीघ्रमागच्छ पूर्वद्वारस्य वामतः ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १४३ ॥ अष्टमावाहयिष्यामि तथाषाढं बलान्वितम् ॥ यज्ञांतं च धर्मज्ञं पीताम्बरधरादुभौ ॥ १४४ ॥ नीलजीमूतसङ्काशौ तथा मुद्गरपारिणौ ॥ सङ्कर्षणप्रतीहारौ चारुरूपौ मनोहरौ ॥ १४५ ॥ आषाढ त्वमिहागच्छ दक्षिणद्वारवामतः ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १४६ ॥ यज्ञांत त्वमभ्येहि द्वारदक्षिणतो भव ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १४७ ॥ (जयमावाहयिष्यामि दीप्तेतेजससम्युतम् ॥ विजयं च विशालं च पाटलाम्बरधारिणौ ॥ १४८ ॥ शशांकांशुप्रतीकाशौ तथोभौ खङ्गधारिणौ ॥ प्रद्युम्नस्य प्रतीहारौ कामदेवौ सुवर्चसौ ॥ १४९ ॥ जय शीघ्रं त्वमभ्येहि पश्चिमद्वारवामतः ॥ गणैः सानुचरैः सार्धं भव संनिहितः सदा ॥ १५० ॥ विजय त्वमिहाभ्येहि द्वारदक्षिणतो भव ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १५१ ॥ अष्टमावाहयिष्यामि तथा मोदं जगत्प्रियम् ॥ प्रमोदं च महावीर्यं श्वेताम्बरधरादुभौ ॥ १५२ ॥ सिन्दूरारुणसङ्काशौ शक्तहस्तौ बलोत्कटौ ॥ अनिरुद्धप्रतीहारौ महाबलपराक्रमौ ॥ १५३ ॥ आमोद शीघ्रगच्छेहि द्वारदक्षिणतो भव ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १५४ ॥ सर्वानावाहयिष्यामि वासुदेवगणानहम् ॥ वासुदेवसमोकारान्वांसुदेवपराक्रमान् ॥ १५५ ॥ प्रद्युम्नस्य समाकारान्प्रद्युम्नसमपराक्रमान् ॥ प्रद्युम्नस्य गणानशीघ्रमायांतु भुवनेश्वराः ॥ १५६ ॥ सर्वकामप्रदा वीरा सर्वेशाः सर्वशक्तयः ॥ सर्वानावाहयिष्यामि अनिरुद्धगणानहम् ॥ १५७ ॥ अनिरुद्धसमाकारान्निरुद्धपराक्रमान् ॥ अनिरुद्धगणाः शीघ्रमायान्तु भुवनेश्वराः ॥ १५८ ॥ सर्वकामप्रदा वीरा सर्वेशाः सर्वशक्तयः ॥ प्राङ्भागतः स्येव विष्णोरपरिमिततेजसः ॥ १५९ ॥ नोक्तेष्वावाहनं यत्र वासुदेवोक्तमञ्जसा ॥ कार्यमावाहनं तत्र सर्वगस्य महात्मनः ॥ अथ वा विष्णुरूपोऽसमेतत्सारं तवेरितम् ॥ १६० ॥ आवाहने ये कथितास्तु मन्त्रा ज्ञेयास्त एवोद विबोधनेऽपि ॥ आवाहनं तत्र विबोधने तु बुधैः प्रयोज्यं यदुवीर।