विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 686, कुल 1001 में से
संदर्भ में पढ़ेंदेशे भद्रप्रदोत्तराम ॥ एहि त्वं सुमहाभागे मम भद्रप्रदोत्तरे ॥ ९४ ॥ आवाहयाम्यहं देवं पूषणं पापनाशनम् ॥ पूषन्सभ्यागिहाभ्येहि सर्वकल्म- षनाशक ॥ ९५ ॥ ऋक्षमावाहयिष्यामि रेवतीं भूरिदर्शनाम् ॥ एहि रेवति चामङ्गे मुद्रुक्रमप्रसाधिके ॥ ९६ ॥ ऋक्षमावाहयिष्यामि दिग्भवाश्विनि संज्ञकम् ॥ एह्यश्विनि महाभागे वरदे कामदायिनि ॥ ९७ ॥ यममावाहयिष्यामि धर्मराजमथाच्युतम् ॥ एहि धर्मसुतां श्रेष्ठ वैवस्वत महाभुज ॥ ९८ ॥ ऋक्षमावाहयिष्यामि उग्रं भरणीसंज्ञकम् ॥ एहि त्वं देवि भरणि सुभगे चारुदर्शने ॥ ९९॥ प्राचीमावाहयिष्यामि सूर्योदयविभूषिताम् ॥ एहि त्वं वरदे पूर्वे शुभकर्मप्रसाधिनि ॥ १०० ॥ दिशमावाहयिष्यामि वरदां पूर्वदक्षिणाम् ॥ वह्निप्रिये समभ्येहि वरदे पूर्वदक्षिणे ॥ १०१ ॥ अहमावाहयिष्यामि दक्षिणां दक्षिणां दिशम् ॥ दक्षिणे त्वं समभ्येहि सर्वकर्मशुभप्रदे ॥ १०२ ॥ दिशमावाहयिष्यामि शुभां दक्षिणपश्चिमाम् ॥ एहि त्वं नैर्ऋते देवि सततं भृतिवर्धिनि ॥ १०३ ॥ दिशमावाहयिष्यामि वारुणीं वरदां सदा ॥ आगच्छ पश्चिमे देवि वरदे वरुणप्रिये ॥१०४॥ आवाहयिष्यामि दिशं वायवीं पश्चिमोत्तराम ॥ वरदे त्वं समभ्येहि वायव्ये पश्चिमोत्तरे ॥ १०५ ॥ आवाहयामि धनदं देवं वैश्रवणं प्रभुम् ॥ राजराज समभ्येहि सर्वयज्ञेश्वराधिप ॥ १०६ ॥ दिशमावाहयिष्यामि सौम्यां धनदपालिताम् ॥ उत्तरे त्वं समभ्येहि सर्वकर्मफलप्रदे ॥ १०७ ॥ दिशमावाहयिष्यामि शुभां प्रागुत्तरा महम् ॥ एहि त्वं सुभगे देवि सततं शिवपालिते ॥ १०८ ॥ सर्वानवावाहयिष्यामि पूर्णकुम्भेषु सागरान् ॥ रत्नाध्यक्षाः समायान्तु चत्वार इह सागराः ॥ १०९ ॥ ऐशान्यां दिशि यः कुम्भः पूर्वस्तस्यां तु सागरः ॥ अथाशु क्षीरसमुद्रस्तरङ्गोर्मिस- माकुलः ॥ ११० ॥ क्षीरोदमध्येह निलय यादसां पूर्वसागर ॥ तरङ्गशतसंक्रान्त बालभास्करमण्डल ॥ १११ ॥ आग्नेये च समायात दक्षिणे दक्षिणः शिवः ॥ बहुरत्नप्रभापुञ्जक्षोभित्थ सलिलाशय ॥ ११२ ॥ यादसां निलयाभ्येहि दिशं दक्षिणसागर ॥ तरङ्गोद्यौत- पादश्च त्रिकूटशिखराच्युत ॥ ११३ ॥ पश्चिमाशाः समायातु कूर्मे दक्षिणपश्चिमे ॥ रत्नपुञ्जमहाज्वालाविराजितमहोदके ॥ ११४ ॥ तरङ्गसण्डिताम्भोधि दिशं पश्चिमसागर ॥ अस्ताकबिम्बसंक्रान्तगगनमण्डलोद्देश ॥ ११५ ॥ उत्तरस्थ तथाम्येतु कुर्मे वै पश्चिमोत्तरे ॥ हिमाद्रिशिखरच्छायाक्षीरोदसदृशः प्रभुः ॥ ११६ ॥ महाऽविद्रुमसंश्लिष्ट शौघ्रमुत्तरसागर ॥ इहाभ्येहि महाभाग यजमानाभिवृद्धये ॥ ११७ ॥ आवाह्नितानां कर्तव्यं भूमौ कृत्वा ततः शिरः ॥ प्रणाममभिवादं च ततो मन्त्रानुदीरयेत् ॥ ११८ ॥ भवतां हि प्रसादेन भवतो प्रतिपूजने ॥ प्रधाविष्ये यथाशक्त्या त्वन्मण्डलमहार्हय ॥ ११९ ॥ युष्माकं पूजनं कर्तुं केन शक्यं यथाविधि ॥ युष्मत्पूजाविहीनेन केन लभ्यं महत्फ-