भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 690, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 690

वीध्यस्तत्त्वाह्वयिष्यामि दिश्या नवग्रहादयः ॥ ४७ ॥ आयान्तु बोध्यः सकला ग्रहनक्षत्रमण्डिताः ॥ अहमावाहयिष्यामि मुहूर्तान्शुभलक्ष- णिनः ॥ ४८ ॥ मुहूर्ताः शीघ्रमायान्तु कालस्यावयवाः शुभाः ॥ ऋतूनावाहयिष्यामि षडहं भुवनेश्वरान् ॥ ४९ ॥ आयान्तु ऋतवः सर्वे जगच्चक्रप्रवर्तकाः ॥ आवाहयिष्यामि तथा पञ्चसंवत्सरान्नृणाम् ॥ ५० ॥ आयान्तु वत्सराः सर्वे कालचक्रप्रवर्तकाः ॥ युगान्यावाहयिष्यामि चतुरो दीप्तते- जसः ॥५१॥ आगच्छन्तु युगाः सर्वे चतुर्रीत्यव्यवस्थिताः ॥ अहमावाहयिष्यामि सर्वैश्च चतुर्दशा ॥५२॥ मन्वन्तराः समायन्तु त्रिदशाविधिसंस्थि- ताः ॥ कालमावाहयिष्यामि देवं सर्वमयं शुभम् ॥५३॥ आगच्छ भगवन्काल देवदेव जनार्दन ॥ देवानावाहयिष्यामि यज्ञमूर्तिधरानहम् ॥५४॥ देवाः सर्वेः समायन्तु वरदा बहुरूपिणः ॥ ग्रहास्तानावाहयिष्यामि विद्यास्थानान्यशेषतः ॥५५॥ सर्वाणिह समायन्तु लोकानां हितकाम्यया॥शास्त्राण्या- वाहयिष्यामि शास्त्रानङ्गैर्नवेद्यितान्॥५६॥ शास्त्राणि शीघ्रमायान्तु चतुर्ना मण्डनं परा॥ अङ्गान्यावाहयिष्यामि त्रैलोक्यस्य हितानि वै॥५७॥ सर्वे वेदं समायन्तु धर्मसेतुप्रवर्तकाः ॥ अङ्गसानावहयिष्यामि वेदशाखास्त्वनेकशः ॥ ५८ ॥ वेदशाखाः समायन्तु जगद्रक्षणतत्पराः ॥ अहमावाहयिष्यामि सर्वांस्त्रिदशवाहनान् ॥ ५९ ॥ इह सर्वे समायन्तु सर्वे त्रिदशवाहनाः ॥ नागाननावाहयिष्यामि देवपुत्राञ्महाबलान् ॥ ६० ॥ इहोपवाद्या नागेन्द्राः शीघ्रमायान्तु सत्वराः ॥ निधीनावाहयिष्यामि शङ्खपद्मपुरोगमान् ॥ आयान्तु निधयः सर्वे सर्वलोकैकसंभवा- नाः ॥६१ ॥ अज्ञानकाय यदि सङ्क्रमय्यार्ककस्य कार्यं युद्धरंगेनाथ ॥ कार्याथंहेता तु तदेकवत्सरयादाहोनमन्त्रस्य पृथक्रूपाः ॥ ६२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्टाकल्पे देवसंवादानं नाम त्र्युत्तरशततमोऽध्यायः ॥ १०३ ॥ मार्कण्डेय उवाच ॥ आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारकारणम् ॥ १ ॥ चतुर्वेदं चतुर्वक्त्रं चातुर्वर्ण्यप्रभुं प्रभुम् ॥ चतुराश्रम- मागोतासं वरदं भूतभावनम् ॥ २ ॥ पद्मयोनिं जगद्योनिं यज्ञयोनिं जगत्पतिम् ॥ ३ ॥ आत्मयोनिमनौपम्यं ब्रह्मवादं जगत्पतिम् ॥ ३ ॥ यज्ञेशं यज्ञहर्तारं च त्रैलोक्यप्रख्यैककारणम् ॥ सर्वगं नारदं सौम्यं परमं परमेश्वरम् ॥ ४ ॥ भूतभव्यभवोद्भवं योगज्ञेयं सनातनम् ॥ आगच्छ भगवन्ब्रह्म- न्युजशासनस्य बुद्धये ॥ ५ ॥ इदमर्घ्यमिदं पाद्यं ध्रुवं चेदं प्रगृह्यताम् ॥ आवाहयाम्यहं देवं देवदेवं हुताशनम् ॥६॥ जगतोऽस्य समुत्पत्तिस्थिति- संहारकारकम् ॥ देवमूर्तिं तदाह्यारं सर्वदेवमुखं प्रभुम् ॥ ७ ॥ पिङ्गेक्षणं पिङ्गजटं धूमकेतुं विभावसुम् ॥ शुक्लयज्ञोपवीतं देवं सर्वारभणभूषितम् ॥ ८ ॥ सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ॥ तेजोमूर्तिं दुराधर्षं मताजिह्वं महाबलम् ॥ ९ ॥ सप्ताचिषं सप्तमुनिं समित्सक्तमच्युतम् ॥