भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 700, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 700

सौम्या नवमे श्रीविवर्धिनी ॥ ५० ॥ कूर्म्माणं साधकी प्रोक्ता जन्मग्नाद्दशमे तु मे ॥ एकादशे सुतिकरी द्वादशेऽरिमयप्रदा ॥ ५१ ॥ ज्ञेया त्रयोदशे क्षेम्या रोगदा तु चतुर्दशे ॥ वृद्धिदा पञ्चदशके षोडशे निधनप्रदा ॥ ५२ ॥ सप्तदशे सुतिकरी व्रीडा चाष्टादशे भवेत् ॥ एकोनविंशतितमे कर्तु र्मरणदायिनी ॥ ५३ ॥ ततो द्वितीये धनदा तृतीयोऽरिमयप्रदा ॥ चतुर्थे क्षेमजननी पञ्चमे रोगवर्द्धिनी ॥ ५४ ॥ षष्ठे लक्ष्मीकरी ज्ञेया धनधान्य विवर्धिनी ॥ द्वितीये च चतुर्थे च पञ्चमे च तथाऽष्टमे ॥ ५५ ॥ द्वादशे नवमे चन्द्रे कर्तुर्दोषकरी भवेत् ॥ जन्मस्थश्च तृतीयश्च पञ्चमैकादशो स्तथा ॥ ५६ ॥ दशमः सप्तमश्चैव यदा विद्धौ मृगेन्द्रवैः ॥ पञ्चमैर्नवमैश्चैव द्वादशैश्च तथाष्टमः ॥ ५७ ॥ चतुर्थे वा द्वितीये वा क्रमात्पादफलो भवेत् ॥ विपर्ययेण वेरम्यो पापोऽपि शुभकृत्स्मृतः ॥ ५८ ॥ चन्द्राद्द्वादशमः सूर्यो द्वितीये वा मृगन्दः ॥ द्वादशेऽथ द्वितीये च भौमे दाहम वाप्नुयात् ॥ ५९ ॥ द्वादशे चेंदुद्वितीयगे वा सौरे मरणदा भवेत् ॥ पापमध्यगते चन्द्रे ध्रुवं मरणदा भवेत् ॥ ६० ॥ एकोऽस्मिन्सु यदा केन्द्रे चन्द्रः सूर्यमण्डलस्थितः ॥ केन्द्रत्रयमथान्यं स्याद्युक्तं सूरिसूर्यजौः ॥ ६१ ॥ तदा कर्तुविनाशाय प्रतिष्ठा स्यान्निरोषिध ॥ चन्द्रे सूर्के विनाशाय भौमे दाहसवाप्नुयात् ॥ ६२॥ ससौरे मृत्युदा ज्ञेया सराहो निधनप्रदा ॥ नक्षत्रे सोपरागे तु कर्तुर्मरणदायिनी ॥ ६३ ॥ परिवेषे तथा चन्द्रे मरणं तु प्रयच्छति ॥ सार्पान्त्यपादेगे चन्द्रे तथा ज्येष्ठांन्तपादगे ॥ ६४ ॥ पौष्णान्तपादगे चैव कर्तुर्निधनकारिणी ॥ यस्मिन्नृक्षे गृहेनोक्तं फलं भूपति सत्तम ॥ ६५ ॥ तद्देव फलं प्रोक्तं तन्नक्षत्रेऽपि याइद ॥ दिनमध्यगते सूर्ये मुहूर्त्तऽस्मिश्चितेऽथमे ॥ ६६ ॥ सर्वकामसमृद्धा स्यात्सर्वोपद्र वर्जिता ॥ सुरावस्तमय प्राप्ते नीचस्थे कर्तृघातिनी ॥ ६७ ॥ तस्माद्बलस्थे जीवे तु धनधान्यकरी भवेत् ॥ ब्राह्मे राश्ये हदा ज्ञेया प्राजापत्ये सुखावहा ॥ ६८ ॥ स्वर्गलोकमप्रदा स्वर्गे चक्रे चक्रवर्तिनी ॥ वानस्पत्ये तु वरदा ह्यात्रे चारुविवर्धिनी ॥ ६९ ॥ वांसे भवति वन्धाब्या काले मृत्युप्रदायिनी ॥ आग्नेये दाहमाप्नोति क्लेदामर्द्दन्दवे तथा ॥ ७० ॥ सौरे भवति सुस्फीता चान्द्रे च वरदा तथा ॥ नश्यते शम्भुदैवत्ये गौर्देवे वृद्धिमवाप्नुयात् ॥ ७१ ॥ वैष्णवे पुष्टिदा प्रोक्ता तथा भवति पूजिता ॥ कान्तारे वृद्धिमवाप्नोति पित्र्ये नाशं तथैव च ॥ ७२ ॥ वारुणे रोगदा प्रोक्ता शुभा चानन्तदैवते ॥ चला पवनदैवत्ये याम्ये मृत्युप्रदा भवेत् ॥ ७३ ॥ वार्द्धवेते सदा कान्ता श्रीशेषे श्रीयुता भवेत् ॥ धनदे धनसंयुक्ता सुहृदा शैलदैवते ॥७४॥ पृथ्वी देवी दृढा सौम्या शुभा स्याच्छैषदैवते ॥ पौरुषे तु तथा रौद्रे बहुधर्मविवर्धिनी॥७५॥कुटैः सुखावहा चैव तथा चाज्ञा


१ 'गृहेः' इति ख० । २ 'द्वादशे वा' इति ख० । ३ 'चामे' इति ख० । ४ 'गोदेव्ये' इति ख० ।