भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 87, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 87

क्रोधश्वाऽयं तव वृथा न भविष्यति पुत्रक ॥ १९ ॥ एवमुक्तस्तु भृगुणा ऋचीकोऽग्निमभाषत ॥ पूर्वोत्तरे समाप्लाव समुद्रे वस पुत्रक ॥ २० ॥ पिबंस्तरौ सदा वेगमम्भसां सुमहाद्युते ॥ अस्माकं तु कुले भावी क्षत्रधर्मा द्विजोत्तमः ॥ २१ ॥ क्षत्रियाणां समुच्छेदं यः करिष्यत्यनेकशुः ॥ एवमुक्तस्तु पित्रा वै पिबन्मासाष्टकं जलम् ॥ २२ ॥ चैत्रमासं समारभ्य नित्यमास्ते सुखी जले ॥ पीतं मासाष्टकं तोयं जठरे भस्मसात्कृतम् ॥ ॥ २३ ॥ फूत्कृत्य मासांश्चतुरः शिशिराख्ये महीतले ॥ नित्यं हिमोथं सृजति तस्मादपि समीरणः ॥ २४ ॥ हिमाचले पातयति प्रवाहो नाम पार्थिव ॥ एषा तोयाद्धिमोत्पत्तिर्हेमंतौ यस्य संभवः ॥ २५ ॥ बुद्धिक्षयविहीनस्य कथितं तव धार्मिक ॥ २६ ॥ उत्पत्तिरेषा तव वाडवाग्नेः प्रोक्ता मया भूमिपतिप्रधान ॥ श्रुत्वाऽपि यां मुञ्चति मोहजालं संसारजातेश्च यथा प्रबुद्धः ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वडवाग्न्युत्पत्तिर्नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥

॥ मार्कण्डेय उवाच ॥ ॥ और्वस्य भार्या धर्मज्ञा नाम्ना सत्यवती शुभा ॥ वने पर्यचरद्भक्त्या गाधिजा भृगुनन्दनम् ॥ १ ॥ तस्याः परमया भक्त्या भर्ता तोषमुपागतः ॥ उवाच तां वरोराहांतुष्टोऽहं भृगुनन्दनः ॥ २ ॥

॥ ऋचीक उवाच ॥ ॥ वरं वरय सुश्रोणि यत्ते मनसि वर्तते ॥ तोषितोऽहं त्वया भद्रे वने शुश्रूषया वरे ॥ ३ ॥

॥ सत्यवत्युवाच ॥ ॥ मातुः प्रयच्छ मे पुत्रं भगवन्वीर्यवत्तरम् ॥ पुत्रं मम च धर्मज्ञं युतं ब्राह्मणतेजसा ॥ ४ ॥

॥ ऋचीक उवाच ॥ ॥ चरुद्वयं करिष्यामि मातुरर्थे तथा तव ॥ यस्य संशनात्पुत्रं त्वं चैव जनयिष्यसि ॥ ५ ॥

॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्त्वा तदा चक्रे ऋचीकस्तु चरुद्वयम् ॥ एकस्मिन्सकलं शांतं तेजश्चक्रे सर्वैष्णवम् ॥ ६ ॥ श्वश्रूयै तं चरुं कृत्वा द्वितीयं स न्यवेशयत् ॥ ब्राह्मं रौद्रञ्च यत्तेजः पत्न्यर्थे कृतवांश्चरुम् ॥ ७ ॥

॥ ऋचीक उवाच ॥ ॥ अयं प्राश्यस्त्वया भद्रे त्वयं मात्रा चरूस्तव ॥ अश्वत्थालिङ्गनं कार्यं मात्रा तत्र तदा शुभे ॥ ८ ॥ तथैवोदुम्बरस्याऽपि त्वया राजीवलोचने ॥ ९ ॥

॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्ता ततो गत्वा मात्रे सर्वं न्यवेदयत् ॥ १० ॥ ततस्तामब्रवीन्माता गाधेः पत्नी यशस्विनी ॥ ध्रुवं भगवता पुत्रस्तव पुत्रचिकीर्षया ॥ ११ ॥ श्रेष्ठं तेजसा युक्तश्चरुरेष कृतः शुभे ॥ तस्माच्चरुविपर्यासं मद्यं कुरु मा चिरम् ॥ १२ ॥ अलिङ्गनं विपर्यासं द्रुमयोः क्रियतां तथा ॥ सा मातुर्वचनं सर्वं चक्रे गौरवयन्त्रिता ॥ १३ ॥ संगर्भा स गते काले भर्ता


१ 'समुक्षन् स पुत्रकं' इति ख० ।
२ 'चैत्रमासात्त्मारम्य नित्यमास्ते सुखे जले' इति ख० ।
३ 'हिमाद्यम्' इति क० ।
४ 'संसारजातश्च यथाप्रबुद्धः' इति ख० ।
५ 'तस्याः स परया भक्त्या' इति ख० ।
६ । 'वदे' इति ख० ।
७ 'अश्वत्थे तं चरुं कृत्वा' इति ख० ।
८ 'प्राशभतः' इति ख० ।
९ 'श्वेतेन' इति ख० ।
१० 'सगर्भा चोगते' इति ख० ।