याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 130, कुल 782 में से
संदर्भ में पढ़ें७४ याज्ञवल्क्यस्मृतिः अन्नमदनीयं पर्युषितं घृतादिस्नेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोधूमयदगोरसविक्रियाः मण्डकसक्तुकिलाटकूर्चिकादयः अस्नेहा अपि चिरकाल- संस्थिता भोज्याः, यदि विकारान्तरमनापन्नाः, 'अपूपधानाकरम्भसक्तुयोवकतैल- पायसशाकानि शुक्तानि वर्जयेत्' ( १४।३७ ) इति वसिष्ठस्मरणात् ॥ भाषा—घृत आदि चिकनाई से युक्त देर से भी रखा हुआ भोजन खाना चाहिए । गेहूँ, जौ और दूध से बनाया गया भोजन यदि चिकनाई से युक्त न भी हो तो भी ( चिरकालोपरान्त भी ) ग्रहण किया जा सकता है ॥ १६९ ॥ संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् । औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम् ॥ १७० ॥ गौः या वृषेण संधीयते सा संधिनी । 'वशां वन्ध्यां विजानीयाद्वृषाक्रान्तां च संधिनीम्' इति त्रिकाण्डीस्मरणात् । या चैकां वेलामतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते सा संधिनी। प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा, मृतवत्सा अवत्सा, संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सास्ताश्च गावश्च तासां पयः क्षीरं परिवर्जयेत् । 'संधिनी' ग्रहणं संधिनीयमल- सुवोपलक्षणार्थम् । यथाह गौतमः ( १७।२५ )—'स्यन्दिनीधमसूसंधिनीनां च' इति । स्रवत्पयःस्तनी स्यन्दिनी, यमलसूर्यमलप्रसविनी, एवमजामहिष्योश्चा- निर्दशयोः पयो वर्जयेत्, 'गोमहिष्यजानामनिर्दशानाम्' ( १४।३५ ) इति वसिष्ठस्मरणात् । पयोग्रहणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनिषेधो१ युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधो युक्तः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः । उष्ट्राजातमोष्ट्रं पयोमूत्रादि । एकशफा वडवादयः, तत्रभवं ऐकशफम् । स्त्रीभवं स्त्रैणम् । 'स्त्री'ग्रहणमजाव्यतिरिक्तसकल- द्विस्तनीनामुपलक्षणार्थम् ।—सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्ज्यम्२ इति शङ्खस्मरणात् । अरण्ये भवा आरण्यकास्तदीयमारण्यकं क्षीरं महिष्यव्यति- रेकेण । 'आरण्यानां च सर्वेषां मृगाणां माहिषं विना' ( मनु. ५।९ ) इति वचनात् । अवेर्जातमाविकम् । 'वर्जयेत्' इति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादि- विकारप्रत्ययनिर्देशात्तद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः, 'नित्यमाविकम- पेयमौष्ट्रमैकशफं च' ( १७।२४ ) इति गौतमस्मरणात् ॥ १७० ॥ भाषा—संधिनी ( बरदाई हुई, एक जून दूध देने वाली, दूसरी गाय के बछड़े से दुही जाने वाली ), दस दिन से कम पहले की ब्याई हुई गाय का तथा जिसका बच्चा मर गया हो ऐसी गाय का दूध नहीं पीना चाहिए । ऊँटनी एक १. रनिषेधो युक्तः । २. व्यतिरिक्तम् ।