याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 133, कुल 782 में से
संदर्भ में पढ़ेंअक्षणे द्वादशरात्रमनाहारः, पिबेद्गोमूत्रयावकम्' इति तद्बहुकालाभ्यासे मतिपूर्वे समस्तभक्षणे वा वेदितव्यम् ॥ १७५ ॥ भाषा—चाष, रक्तपाद (कादम्ब आदि ), वधिक द्वारा मारे गये पशु का मांस, सूखा मांस और मछली का भक्षण न करे । इन सबका जानबूझ कर भक्षण करने पर तीन दिन तक उपवास करे ॥ १७५ ॥ पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १७६ ॥ पलाण्डुः स्थूलकन्दनालो लशुनानुकारी, विड्वराहो ग्रामसूकरः, छत्राकं सर्पछत्रम्, ग्रामकुक्कुटः प्रसिद्धः, लशुनं रसोनं सूक्ष्मश्वेतकन्दनालम् । गृञ्जनं लशुनानुकारिलोहितसूक्ष्मकन्दम्, एतानि षट् सकृत्कामतॊ जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुक्कुटछत्राकयोः पूर्वप्रतिषेधितयोरिहा- भिधानं पलाण्ड्वादिसमानप्रायश्चित्तार्थम् । मतिपूर्वं चिरतराभ्यासे तु 'छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः' इति (५।१९) मनूक्तम् । अमतिपूर्वाभ्यासे—'अमत्याैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत्' (५।१९) तृतीयाध्याये, वक्ष्यमाणं 'यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं—'लशुनपलाण्डुगृञ्जनविड्वराह- ग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्' इति ॥ १७६ ॥ भाषा—प्याज, ग्रामसूकर, छत्राक ( कुकुरमुत्ता ), ग्रामकुक्कुट, लहसुन, और गृञ्जन ( गाजर या शलजम ) का ( जानबूझ कर ) भक्षण करने पर चान्द्रायण व्रत करे ॥ १७६ ॥ भक्ष्याः पञ्चनखाः सोधागोधाकच्छपशल्लुकाः । शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १७७ ॥ तथा पाठीनराजीवसशल्काश्च द्विजातिभिः । सेधा श्वावित्, गोधा कृकलासानुकारिणी महती, कच्छपः, कूर्मः, शल्लकः ४शल्लकी, शशः प्रसिद्धः, पञ्चनखादीनां श्वमार्जारवानरादीनां मध्ये एते मेधादयो भक्ष्याः । चकारात्खड्गोऽपि । यथाह गौतमः ( १७।२७ )—'पञ्चनखाः शशशल्लकश्वाविद्गोधाखड्गकच्छपाः' इति । यथाह मनुरपि ( ५।२८ )—'श्वाविधं ५शल्यकं गोधां खड्गकूर्मशशांस्तथा । भक्ष्यान्पञ्चनखेष्व | हुरनुष्ट्रांश्चैकतोदतः ॥' इति । यत्पुनर्वसिष्ठेन 'खड्गे तु विवदन्ति' (१४।४७) इत्यभक्ष्यत्वमुक्तं, तच्छ्राद्धादन्यत्र, 'खड्गमां सैर्भवेत्तृप्तिरक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुति- १. दुधित्थ । २. प्रतिषिद्धयो । ३. शल्यकाः । ४. शालुकः शाली । ५. शल्यकं ।