भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 136, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 136

८० याज्ञवल्क्यस्मृतिः

मुनिवन्माननीयो भवति; मांसत्यागात् । एतच्च न प्रतिषिद्धमांसविषयम् , नापि प्रोक्षितादिविषयम्, किंतु पारिशेष्यादतिथ्याद्यर्चनावशिष्टाभ्यनुज्ञात- विषयमिति ॥ १८१ ॥ भाषा—(जो यज्ञ के अतिरिक्त अन्य) मांस का भक्षण न करने का सत्य- संकल्प करता है वह सभी अभिलाषाओं एवं अश्वमेध यज्ञ के फल को प्राप्त करता है । मांस का त्याग कर देने पर ब्राह्मण अपने घर में रहता हुआ भी मुनितुल्य होता है ॥ १८१ ॥ इति भक्ष्याभक्ष्यप्रकरणम् ।

अथ द्रव्यशुद्धिप्रकरणम्

इदानीं द्रव्यशुद्धिमाह— सौवर्णराजताब्जानामूर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफलवासोविदळचर्मणाम् ॥ १८२ ॥ पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेहपात्राण्युष्णेन वारिणा ॥ १८३ ॥ सौवर्णं सुवर्णकृतम् , रजतं रजतकृतम् , अब्जं मुक्ताफलशङ्खशुक्त्यादि, ऊर्ध्वपात्रं यज्ञियोलूखलादि, ग्रहादिसाहचर्यात् । ग्रहाः षोडशिप्रभृतयः, अश्मा दृषदादिः, शाकं वास्तुकादि, रज्जुः बल्वजादिनिर्मिता, मूलामाद्रे- कादि, फलमाम्रादि, वासो वस्त्रम् , विदलं वैणवादि, चर्म अजादीनाम्, विदल-चर्मणोर्ग्रहणं तद्विकाराणां छत्रवस्त्रादीनामुपलक्षणार्थम् । पात्राणि प्रोक्षणीपात्रप्रभृतीनि, चमसा होतृचमसादयः, एतेषां सौवर्णादीनां लेपरहिता- नामुच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः, चरुश्चरुस्थाली, स्रुक्स्रुवौ प्रसिद्धौ, सस्नेहानि पात्राणि प्राशित्रहरणादीनि, एतानि च लेपरहितान्युष्णेन वारिणा शुद्ध्यन्ति; 'निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यति । अब्जमश्ममयं चैव रजतं चानुपस्कृतम् ॥' इति (५।११२) मनुस्मरणात् । अनुपस्कृतम- खातपूरितम् । सलेपानां तु—'तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥' इति (५।१११) मनूक्तं द्रष्टव्यम् । मृद्भस्मनोरेककार्यत्वाद्विकल्पः । आपस्तु समुच्चीयन्ते । काकादिमुखो- पघाते तु—'कृष्णशकुनिमुखावमृष्टं पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत' (गौ. सू. १७।४) इति द्रष्टव्यम् । एतच्च मार्जारादन्यत्र, 'मार्जार- श्चैव दर्वी च मारुतश्च सदा शुचिः ।' इति मनुस्मरणात् ॥ १८२-१८३ ॥

१. परिशेषात् । २. मुखावघृष्टं ।