याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 138, कुल 782 में से
संदर्भ में पढ़ें८२ याज्ञवल्क्यस्मृतिः ग्राह्णां मेषमहिषादिशृङ्गाणां करिवाराहशङ्खाद्यस्थनाम् । 'अस्थि'ग्रहणेन दन्तानामपि ग्रहणम् । उच्छिष्टस्नेहादिभिर्लिप्तानां मृद्भस्मोदकादिभिरनपगत- लेपानाम् । मनुः ( ५।१२६) - 'यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः । तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥' इति सामान्यतः शुद्धिविधानात् । तत्तृणं तावन्मात्रावयवापनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनारिकेलादि- फलसंभूतानां पात्राणां गोबालैरुद्धर्षणाच्छुद्धिः। यज्ञपात्राणां स्रुक्स्रुवादीनां यज्ञकर्मणि प्रयुज्यमानानां दक्षिणेन हस्तेन दर्भैर्दशापवित्रेण वा यथाशास्त्रं कर्माङ्गतया मार्जनं कर्तव्यम् । एतच्च श्रौतमुदाहरणमन्येषामपि सौवर्णादीनां पात्राणां स्मार्तलौकिकर्मसु कृतशौचानामेवाङ्गत्वमिति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानामिदं दशापवित्रादिभिर्मार्जनं संस्कारार्थमिति शेषः ॥ १८५ ॥ भाषा- भेड़ या भैंस आदि के सींग और हाथी, सूकर की अस्थियों (एवं शङ्ख) से बने हुए पात्र की शुद्धि उसे खुरचने से होती है । फल से बनाया हुआ पात्र गोबाल से रगड़ने पर शुद्ध होता है । यज्ञ के समय (स्रुक् स्रुवा आदि) यज्ञ पात्र हाथ से पोंछने पर हीं शुद्ध हो जाते हैं ॥ १८५ ॥ इदानीं सलेपानामेव केषांचिल्लेपापकर्षणे विशेषहेतूनाह- 'सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् । सश्रीफलैरंशु पट्टं सारिष्टैः कुतपं तथा ॥ १८६ ॥ ऊषरमृत्तिकासहितेन गोमूत्रेणोदकेन वा लेपापेक्षया । आविकमूर्णामयम्, कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुद्ध्यति । 'उदगोमूत्रैः' इति बहुवचनं पश्चादप्युदकप्राप्त्यर्थम् । अंशु पट्टं वल्कलतन्तुकृतम्, सश्रीफलै- र्बिल्वफलसहितैः, कुतपः पार्वतीयच्छागगोमनिर्मितकम्बलंः, अरिष्टैःसहितैरुदक- गोमूत्रैः, शुध्यतीत्यनुवर्तते । एतच्चोच्छिष्टस्नेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि, क्षालनासहत्वात्, सर्वत्र द्रव्याविनाशेनैव शुद्धेरिष्ट- त्वात् । तथा च देवलः-'ऊर्णाकौशेयकुतपपट्टक्षौमदुकूलजाः । अल्पशौचा भवन्त्येते शोषणप्रोक्षणादिभिः ॥' इत्यभिधायाह- 'तान्येवामेध्ययुक्तानि क्षाल- येच्छोधनैः स्वकैः । धान्यकल्कैस्तु फलजै रसैः क्षारानुगैरपि ॥' इति क्षौमवदेव शाणस्य समानयोनित्वात् । ऊर्णादिग्रहणं तदारब्धतूलिकादिप्राप्त्यर्थम् । अत- स्तस्याल्पोपघातेनैव क्षालनं कार्यम् । अमेध्यलेपादन्यत्र-'तूलिकामुपधानं च पुष्परक्ताम्बरं तथा शोषयित्वातपे किंचित्करैः समार्जयेन्मुहुः ॥ पश्चाच्च वारिणा १. हेतुलक्षणेनाह । २. सोषैरुदक ( = ऊषमृत्तिकासहितैः) । ३. अरिष्ट- फलसहितैः । अरिष्टसहितैः फेनककहितैः । ४. योगत्वात् ।