याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 145, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ८६ दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राक् च्युतेरित्येके च्युतेष्वास्त्राववद्विद्यान्निगिरन्नेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तेन त्यागेन विकल्प्यते । निगिरन्नेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलो- मकौ स्पृष्ट्वा वासो विपरिधाय च ॥' इति विष्णूक्ताचमननिषेधार्थः । 'ताम्बूल'- ग्रहणं फलाद्युपलक्षणार्थम् । यथाह शातातपः—'ताम्बूले च फले चैव भुक्ते स्नेहावशिष्टके । दन्तलग्नस्य संस्पर्शे नोच्छिष्टो भवति द्विजः ॥' इति ॥ १९५ ॥ भाषा—मुख से निकले हुए थूक के बिन्दु तथा आचमन के जल के बिन्दु शुद्ध होते हैं ( शरीर पर गिरने पर दूषित नहीं करते ) । दाढ़ी मूँछ पर सटे हुए मुँह में तथा दाँत में लगे हुए जूठे भोजन को साफ कर देने पर शुद्धि होती है ॥ १९५ ॥ स्नात्वा पीत्वा क्षुते सुप्ते भुङ्क्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १९६ ॥ स्नानपानक्षुतस्वप्नभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुनराचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनाम्भ चाँपल्यानृतोक्त्या- दिषु । तथा च वसिष्ठः—'सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेत' इति । मनुरपि ( ५।१४५ )—'सुप्त्वा क्षुत्वा च भुक्त्वा च ष्ठीवित्त्वोक्त्वानृतं वचः । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने स्वादावपि त्वादावपि द्विराचमनम्—'भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत' इत्यापस्तम्बस्मरणात् । स्नानपानयोरादौ सकृत् । अध्ययने त्वारम्भे द्विः । शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥ भाषा—स्नान करके, पानी पीकर, क्षुत, शयन, भोजन करके तथा रथ पर चलने के बाद ( विशेष रूप से ) वस्त्र धारण करके पुनः ( अर्थात् दो बार ) आचमन करे ॥ १९६ ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुद्ध्यन्ति पक्केष्टकचितानि च ॥ १९७ ॥ रथ्या मार्गमात्रम् , कर्दमः पङ्कः तोयमुदकम् , रथ्यास्थितानि कर्दम- तोयानि अन्त्यैश्चण्डालादिभिः श्वभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्ध्यन्ति शुद्धिमुपयान्ति । बहुवचनं तद्गतगोमयशर्करादिप्राप्त्यर्थम् । पक्केष्टकादि- भिश्चितानि प्रासादधवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्ध्यन्ति १. निर्गिरन्नेव निगरन्नेव । २. भुक्ते । ३. चाल्पत्वानृतो । ४. पक्वेष्टिक- चितानि ।