याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 147, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ६१ एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनेकैकयोगेन¹ पात्रतामभिधायाधुनां तेषां समुच्चये संपूर्णं पात्रतामाह- न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ २०० ॥ केवलया विद्यया श्रुताध्ययनसंपत्त्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । 'अपि' शब्दात्केवलेनानुष्ठानेन केवलया² जात्या वा नैव सम्पूर्णपात्रता । कथं तर्हि ? यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्तः च शब्दाद्ब्राह्मणजातिश्च तदेवं मन्वादिभिः सम्पूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्यं द्रष्टव्यम् ॥ २०० ॥ भाषा-केवल (श्रुताध्ययन आदि) विद्या से अथवा केवल (शमदमादि) तपस्या से ही कोई सुपात्र नहीं होता । जिस पुरुष के आचरण में विद्या और तपस्या दोनों ही हों वही श्रेष्ठ पात्र होता है ॥ २०० ॥ सत्पात्रे गवादिदानं देयम्- गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् । नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता ॥ २०१ ॥ पूर्वोक्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं³ देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः सम्पूर्णफलमिच्छता किञ्चिदल्पमपि न दातव्यम् । श्रेयोग्रहणादपात्रदानेऽपि किमपि⁴ तामसं फलमस्तीति सूचितम् । यथाह कृष्णद्वैपायनः (गी० १७।२२)- 'अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥' इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्या- सन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तस्मै प्रतिश्रवणं वा कृत्वा समर्पयेत्, नत्वपात्रे दातव्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम्, 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥ भाषा-गाय, भूमि, तिल, सोना आदि पात्र व्यक्ति को ही विधिपूर्वक अर्चना के साथ (दान स्वरूप) देना चाहिए अपने सम्पूर्ण फल की इच्छा करने वाले, (पात्र अपात्र का ज्ञान रखने वाले) विद्वान को अपात्र (क्षत्रियादि एवं पतित ब्राह्मण) को अल्प (दान) भी नहीं देना चाहिए ॥ २०१ ॥ १. योगे पात्रतां । २. केवलजात्या । ३. दकपात्रादीति । ४. किञ्चित्तामसं ।