भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 161, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 161

आचाराध्यायः १०५ शान्द्विगुणभुग्नान् अप्रदक्षिणं वामतो विष्टरार्थमासनेषूदकपूर्वकं दत्त्वा पुनरुदकं दद्यात् ; 'अपः प्रदाय $^१$दर्भान्द्विगुणभुग्नासनं प्रदायापः प्रदाय' ( गृ. सू. ४।७, ५, ६, ७ ) इत्याश्वलायनस्मरणात् । एतच्चाद्यन्तयोरुदकदानं वैश्वदेवे पित्र्ये च प्रतिवदार्थं प्रतिपादनार्थं द्रष्टव्यम् । अथ 'पितॄन् पितामहान् प्रपितामहानावाह- यिष्ये' इति ब्राह्मणान्पृष्ट्वा 'आवाहय' इति तैरनुज्ञातः 'उशन्तस्त्व्वा निधीमहि' ( ऋ. ७।६।२२।२ ) इत्यनयर्चा पित्रादीनावाह्य 'आयन्तु नः पितरः' इत्यादिना मन्त्रेणोपतिष्ठेत ॥ २३२-२३३ ॥ भाषा—इसके बाद आच्छादन के लिये वस्त्र और फिर हाथ धोने के लिये जल देना चाहिए। (वैश्वदेव के बाद) यज्ञोपवीत को दाहिने कंधे पर करके, पितरों को बाईं ओर से दोहरे कुश देकर 'उशन्तस्त्व्वा निधीमहि' ऋचा से पितरों का आवाहन करके ब्राह्मणों की आज्ञा पाकर 'आयन्तु नः पितरः' इत्यादि मन्त्र का जप करे ॥ २३२-२३३ ॥ ( अपहता इति तिलान्विकीर्य च समन्ततः ) यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ॥ २३४ ॥ दत्त्वार्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥ २३५ ॥ यवार्था यवसाध्यानि कार्याण्यवकिरणादीनि तिलैः कर्तव्यानि । ततोऽर्घ्य- पात्रासादनाच्छादनान्तं पूर्ववत्कुर्यात् । तत्रायं विशेषः—'तिलान् 'अपहता असुरा रक्षांसि' इत्यादिना मन्त्रेण ब्राह्मणान्परितोऽप्रदक्षिणमन्ववकीर्य राजतादिषु पात्रेषु त्रिष्वयुग्मकुशनिर्मितकूर्चान्तेषु 'शं नो देवीः' इति मन्त्रेणापः क्षिप्त्वा 'तिलोऽसि सोमदैवत्य' इत्यादिमन्त्रेण तिलान् गन्धपुष्पाणि च क्षिप्त्वा 'स्व- धाऽर्थ्याः'इति ब्राह्मणानां पुरतोऽर्घ्यपात्राणि स्थापयित्वा 'या दिव्या' इति मन्त्रान्ते 'पितरिदं तेऽर्घ्यं पितामहेदं तेऽर्घ्यं प्रपितामहेदं तेऽर्घ्यम्' इति ब्राह्मणानां हस्ते- ष्बर्घ्यं दद्यात् । 'एकैकमभयत्र वा' इत्यस्मिन्नपि पक्षे पात्रत्रयं कार्यम् । एवमर्घ्यं दत्त्वा तेषामर्घ्याणां संस्रवान्ब्राह्मणहस्तगलितार्घोदकानि $^३$पितृपात्रे गृहीत्वा दक्षि- णाग्रं कुशस्तम्बं भूमौ निधाय तस्योपरि 'पितृभ्यः स्थानमसि' इत्यनेन मन्त्रेण तत्पात्रं न्युब्जमधोमुखं कुर्यात् । तस्योपरि अर्घ्यपात्रपवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि 'पितरयं ते गन्धः, पितरिदं ते पुष्पम्' इत्यादिना प्रयोगेण दद्यात् ॥ २३४-२३५ ॥ १. द्विगुणभुग्नानूकुशान्दत्त्वापः । २. यवार्थंस्तु तिलैः कार्यः । ३. पात्रे प्रथमे गृहीत्वा ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 161, कुल 782 में से · BharatKosha