याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 178, कुल 782 में से
संदर्भ में पढ़ें१२२ याज्ञवल्क्यस्मृतिः ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥ २५९ ॥ हविष्यं हविर्योग्यं तिलव्रीह्यादि । यथाह मनुः (३।२६७)—'तिलैर्ब्रीहि- यवैर्माषैरद्भिर्मूलफलेन वा। दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥'१ इति । तदन्नं हविष्यान्नं तेन मासं पितरस्तृप्यन्तीत्यना^३ गतेनान्वयः। पायसेन गव्यपयःसिद्धेन संवत्सरम्; संवत्सरं तु गव्येन पयसा पायसेन च' इति (मनुः ३।२७१) स्मरणात् मत्स्यो अद्यः पाठीनादिस्तस्येदं मात्स्यम् । हरि- णस्ताम्रमृगः । एणः कृष्णः, 'एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्या- युर्वेदस्मरणाद् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबंधि औरभ्रम् । शकुनि- स्तित्तिरिरितस्तत्संबंधि शाकुनम्, छागोऽजस्तदीयं छागम्, पृषच्चित्रमृगस्त- न्मांसं४ पार्षतम् । एणः कृष्णमृगस्तत्पिशितमैणम् , रुरुः शंबरस्तत्प्रभवं रौरवम्, वराह आरण्यसूकरस्तज्जं वाराहम् । शशस्येदं शाशम् , एभिर्मांसैः पितृभ्यो- 'दत्तैर्हविष्यान्नेन वै मासम्' इत्युक्तत्वात्तत ऊर्ध्वं यथाक्रममेकैकमासवृद्ध्या पितरस्तृप्यन्ति ॥ २५८-२५९ ॥ भाषा—पितामह (अर्थात् पितरगण) हविष्य अन्न से एक मास तक, और खीर से एक वर्ष तक तृप्त रहते हैं; पाठीन आदि मछली, ताम्रमृग, उरभ्र (भेँड़ा) तित्तिर, बकरा, चित्रमृग, कृष्णमृग, रुरु, जंगली सुअर और खरगोस के मांस श्राद्ध में देने पर क्रमशः एक-एक महीने अधिक समय तक तृप्त रहते हैं ॥ २५८-२५९ ॥ खड्गामिषं महाशल्कं मधु मुन्यन्नमेव^५ वा । लौहामिषं महाँशाकं मांसं वार्ध्रीणसस्य च ॥ २६० ॥ यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६१ ॥ किंच, खड्गो गण्डकस्तस्य मांसम् , महाशल्को मत्स्यभेदः, मधु माक्षि- कम् । मुन्यन्नं सर्वमारण्यं नीवारादि, लोहो रक्तच्छागस्तदामिषं लौहामि- षम् । महाशाकं कालशाकम् । वार्ध्रीणसो वृद्धः श्वेतच्छागः—'त्रिपिबं त्विन्द्रि- यक्षीणं वृद्धं श्वेतंमजापतिम् । वार्ध्रीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥' इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशति सः, १. फलैस्तथा । २. मासं प्रीयन्ते । ३. अनागतत्वेना । ४. शाकुनं अद्यपष्टिसंबन्धि । ५. च । ६. कालशाकं । ७. वार्ध्रीणसस्य । ८. वर्षास्वेवं त्रयोदश्याम् । ९. श्वेतं वृद्धमजापतिं ।