याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 195, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १३६ नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमाः, इत्यनेनान्येषामपि$^१$ पूज्या इति गम्यते । उभयत्र कारणमाह—प्राणिनामभ्युदयविनिपाता ग्रहाधीनाः यस्मात्तस्मादधिकारिभिः पूज्याः । किंच जगतः स्थावरजङ्गमात्मकस्य भावा- भावावुत्पत्तिनिरोधौ ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकोल$^२$ एवोत्पत्ति- निरोधौ भवतः, अन्यथा उत्पत्तिसमये $^३$नोत्पादः, न काले निरोधश्च । जगदीश्वर- त्वाच्च नरेन्द्राणां तयोर्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्ति- कादिष्वधिकारः । तथा च गौतमेन ( ११।१ ) ‘—राजा सर्वस्येष्टे ब्राह्मण- वर्ज्यम्’ इति राजानमधिकृत्य ‘वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत्’ ( गौ. ११।९ ) चलतश्चैतान्स्वधर्मे स्थापयेत्’ इत्यादीन्कांश्चिद्धर्मानुक्त्वा—‘यानि च दैवोत्पात- चिन्तकाः प्रब्रूयुस्तान्याद्रियेत ( गौ. ११।१० ) तदधीनमपि ह्येके योगक्षेमं प्रतिजा- नते’ इति । शान्तिकपौष्टिकाद्यनुष्ठानहेतुमभिधाय ‘शान्तिकपुण्याहस्वस्त्ययना- युष्यमङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषण$^४$स्तम्भनाभिचारद्विषद्द्वृद्धियुक्तानि च शालाग्नौ कुर्यात्’ ( गौ. ११।११।१५-१७) इति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥ भाषा—राजाओं का अभ्युदय और पतन, तथा संसार का अस्तित्व एवं विनाश ग्रहों के अधीन होते हैं; इसलिये ये ग्रह सबसे अधिक पूज्य होते हैं । [ जो व्यक्ति वर्ष में एक बार भी इन ग्रहों की पूर्वोक्त विधि से पूजा करता है वह स्वास्थ्य और बल से युक्त होकर सौ वर्ष तक जीवित रहता है । ] ॥ ३०८ ॥ इति ग्रहशान्तिप्रकरणम् । राजधर्मप्रकरणम् साधारणगृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशेषधर्मानह— महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ॥ $^५$अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ ३१० ॥ स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ ३११ ॥ १. अथ चान्येषामपि । २. स्वकालादुत्पत्ति । ३. तस्य नोत्पादो न काले । ४. संवननाभिचार । ५ अदीर्घसूत्री ।