याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 215, कुल 782 में से
संदर्भ में पढ़ें\centerline{आचाराध्यायः} \hfill १५६ भाषा—इस प्रकार यज्ञ के समान फल का विचार करके राजा प्रतिदिन सभ्य अर्थात् श्रेष्ठ जनों के साथ स्वयं पृथक्-पृथक् (वर्ण आदि के क्रम से) व्यवहारों (वादों या मुकदमों) को देखे ॥ ३६० ॥ कुलानि जातीः श्रेणीश्च गणान्जानपदानपि । स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥ ३६१ ॥ कुलानि ब्राह्मणादीनाम्, जातयो मूर्धावसिक्तप्रभृतयः, श्रेणयस्ताम्बूलिका- दीनाम्, गणा हेलाबुकादीनाम्, जानपदाः, कारुकादयः, एतान्स्वधर्माच्च- लितान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । ‘दण्डं दुर्बृत्तेषु निपातयेत्’ (आ ३५४) इत्युक्तं, स च दण्डो द्विविधः— शारीरोऽर्थदण्डश्चेति । यथाह नारदः—‘शारीरश्चार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥ कौकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥’ इति । द्विविधोऽप्यपराधानुसारेणानेकधा भवति । आह स्म—‘शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा’ इति ॥ ३६१ ॥ भाषा—ब्राह्मण आदि कुलों, मूर्धावसिक्त आदि जातियों, ताम्बूलिक आदि श्रेणियों गणों और जनपदों को अपने धर्म से भ्रष्ट होने पर राजा दण्ड देकर पुनः धर्मसंमत मार्ग में प्रतिष्ठित करे ॥ ३६१ ॥ तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्याः, ते च प्रतिदेशं भिन्नपरिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो मा भूदिति कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुमाह— जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ ३६२ ॥ गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ ३६३ ॥ पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद्रजस्तत् त्रसरेणुरित्युक्तं योगीश्वरा- दिभिस्तत्त्वदर्शिभिः । ते च त्रसरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिक्षास्तिस्रो राजसर्षपो राजिका । ते राजसर्षपास्त्रयो गौरसर्षपः सिद्धार्थः । गौरसर्षपाः षड् यवो मध्यः मध्यमः, न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि ‘मध्यम’ शब्दादेव । सर्षपादि- \rule{0.3\linewidth}{0.5pt} १. काठिन्यादि । \hspace{2em} २. मध्यस्त्वत्रयस्तु ते ।