याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 219, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः। तच्च दुष्टनिग्रह- मन्तरेण न संभवति। दुष्टपरिज्ञानं च न व्यवहारदर्शनमन्तरेण संभवति। तच्चव्यवहारदर्शनमहरहः कर्तव्यमित्युक्तं (आ० ३६०)—'व्यवहारान्नृपः पश्येत्सभ्यैः परिवृतोऽन्वहम्' इति। स च व्यवहारः कीदृशः, कतिविधः, कथं चेतीतिकर्तव्यताकलापो नाभिहितः, तदभिधानाय द्वितीयोऽध्यायः प्रारभ्यते— व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ १ ॥ व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्म- विशेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्मणैर्न क्षत्रिया- दिभिः । 'ब्राह्मणैः सह' इति तृतीयानिर्देशादेषामप्राधान्यम् । 'सहयुक्तेऽप्रधाने' ( पा. २।३।१९ ) इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः ( ८।१२८ )—'अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवा- प्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥' इति । कथम् ? धर्मशा- स्त्रानुसारेण, नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथा च वक्ष्यति (व्य० १८६)—'निजधर्मा- विरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥' इति क्रोधलोभविवर्जित इति । 'धर्मशास्त्रानुसारेण' इति सिद्धे 'क्रोधलोभवि- वर्जितः' इति वचनमादरार्थम् । क्रोधोऽमर्षः, लोभो लिप्सातिशयः ॥ १ ॥ भाषा—राजा क्रोध और लोभ त्यागकर (नीति के) विद्वान् ब्राह्मणों के साथ धर्मशास्त्र के अनुसार व्यवहारों (वादों, मुकदमों) पर विचार करे ॥ १ ॥ १. दर्शनेन विनेति व्यवहारदर्शनं । २. चापिगच्छति । ११ या०