याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 224, कुल 782 में से
संदर्भ में पढ़ें१६८ याज्ञवल्क्यस्मृतिः नियोगकृत् । परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ॥' (२।२३) इति नारदवचनात् ॥ ५ ॥ भाषा—यदि धर्मशास्त्र और समय के आचार के विरुद्ध ढंग से दूसरों द्वारा पीडित होकर राजा निवेदन करे तो वह व्यवहार का विषय होता है ॥ ५ ॥ प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते किं कुर्यादित्यत आह— प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना । समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥ ६ ॥ अर्थ्यते इत्यर्थः साध्यः, सोऽस्यास्तीत्यर्थी; तत्प्रतिपक्षः प्रत्यर्थी, तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा, न पुनरन्यथा; अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।—'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । 'आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥' ( नारदः १।३३ ) इति । आवेदनकाल एवार्त्तिवचनस्य लिखितत्वात्पुनर्लेखन- मनर्थकमित्यत आह—समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना— अर्थिप्रत्यर्थिनामब्राह्मणजात्यादिचिह्नितम् । 'आदि' शब्देन द्रव्यतत्सङ्ख्यास्थान- वेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्—'अर्थबद्धमसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनै- क्षमम् । संक्षिप्तं निखिलार्थं च देशकालाविरोधि च । वर्षर्तुमासपक्षाहोवेलादेश- प्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदा- त्मप्रत्यर्थिनामवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गारमपीडाव- स्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाष्येत्यभिधीयते ॥' इति । भाषा 'प्रतिज्ञा' 'पक्ष' इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समा- मासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते, तथाप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते; आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति वचनात् । अर्थव्यवहारोऽपि एकस्मिन्संवत्सरे यत्सङ्ख्याकं यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्द्रव्यं तत्संख्याकं तत- स्तेन गृहीतं, याच्यमानो यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि योज्यम् । देश- स्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते—'देशश्चैव तथा स्थानं संनिवेशस्तथैव च। १. आहूतम्प्रपलापी । २. साधने क्षमम् । ३. नियतार्थं ।