याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 232, कुल 782 में से
संदर्भ में पढ़ें१७६ याज्ञवल्क्यस्मृतिः दर्थाच्च हीयते, एवं सर्वेष्वर्थविवादेष्विति । अर्थविवादग्रहणाम्मन्युक्तविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गम्यते । यथा—'अहमनेन शिरसि पादेन ताडित' इत्यावेदनसमयेऽभिधाय भाषाकाले 'पादेन हस्ते ताडित' इति वदन्न केवलं दण्ड्यः । पराजीयते च ॥ ९ ॥ भाषा—अभियोग (अपराध) का उत्तर दिये विना अभियोग करने वाले पर उलटा अभियोग न करे । जिस पर किसी दूसरे ने अभियोग किया हो उस पर अभियोग न करे और न कही हुई बात को बाद में बदले ॥ ९ ॥ 'अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्' (व्य० ९) इत्यस्यापवादमाह— कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादना- दिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयत् । नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे युग- पद्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथा हि—'अनेनाहं ताडितः शप्तो वा' इत्यभियोगे, 'पूर्वमहमनेन ताडितः शप्तो वा' इति प्रत्यभियोगे दण्डा- ल्पत्वम् । यथाह नारदः (१५।९) 'पूर्वमाचारयेद्यस्तु नियतं स्यात्स दोषभाक् । पश्चात्तु सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥' इति । यदा पुनर्द्वयोर्युगपत्ताडना- दिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः—'पारुष्ये साहसे चापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ॥' इति । एवं युगपद्व्यवहारप्रवृत्त्य- संभवेऽपि कलहादौ प्रत्यभियोगोऽर्थवान्ऋणादानादिषु तु निरर्थक एव ॥ अर्थिप्रत्यर्थिनोर्विधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह— उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥ १० ॥ उभयोरर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु निर्णयस्य कार्यं कार्यनिर्णयः । आहिताग्न्यादिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयस्य च यत्कार्यं साधि- तधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्यं तद्भवतीतिति प्रतिभूर्ग्राह्यः ससभ्येन सभापतिना । तस्यासंभवेऽर्थिप्रत्यर्थिनौ रक्षणे पुरुषा नियोक्तव्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । यथाह कात्यायनः— 'अथ चेत्प्रतिभूर्नास्ति कार्ययोग्यस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्याद्- भृत्याय वेतनम् ॥' इति ॥ १० ॥ १. वदन्केवलं । २. एवं सति । ३. निर्णयस्य कार्यं च ।