याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 241, कुल 782 में से
संदर्भ में पढ़ेंविधिः । तत्र लिखितं द्विविधं-शासनं चीरकं चेति । शासनमुक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिरुपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावादुक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यम् ? उच्यते—भुक्तिरपि कैश्चिद्विशेषैर्युक्ता स्वत्वहेतुभूत- क्रयादिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्तौ चान्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाण- मुच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते; दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधि- कारिणं प्राप्तयोरेको मानुषीं क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः—'यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकम् । मानुषीं तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः ॥' इति । यत्रापि प्रधानैकदेशसाधनं मानुषं संभ- वति तत्रापि न दैवमाश्रयणीयम् । यथा 'रूपकशतम नया वृद्ध्या गृहीत्वाऽयं न प्रयच्छती'त्यभियोगापह्नवे—'ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामी'त्युक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धि- विशेषसिद्धेर्न दिव्यस्यावकाशः । उक्तं च कात्यायनेन—'यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम् ॥' इति । यत्त—'गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम्' इति, तदपि मानुषासंभव- कृतनियमार्थम् । यदपि नारदेनोक्तम्—'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥' इति; तदपि मानुषासंभव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चापवादो दृश्यते- 'प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्य- मेव च ॥' इति । तथा लेख्यादीनामपि क्वचिन्नियमो दृश्यते । यथा—'पूगश्रेणी- गणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥' तथा—'द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया । भुक्तिरेव तु गुर्वी स्यान्न दिव्यं न च साक्षिणः ॥' तथा—'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥' इति ॥ २२ ॥ भाषा—लिखित, भुक्ति (उपभोग, कब्जा) और साक्षी-ये प्रमाण होते हैं । इनमें से कोई (प्रमाण) न होये तब दिव्यों (एक प्रकार के शपथ) को प्रमाण विहित किया गया है ॥ २२ ॥
१. पूर्वेऽपि । २. वदतां वादिनां, दैवी विवदतां ।