याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 274, कुल 782 में से
संदर्भ में पढ़ें२१८ याज्ञवल्क्यस्मृतिः भाषा—भोग्य आधि स्वीकार करने पर उसका भोग करने पर ही उसकी सिद्धि होती है । प्रयत्नपूर्वक रखी जाने पर भी यदि आधि असार ( वृद्धि युक्त और मूलद्रव्य मिलाकर अपर्याप्त हो जाय, या नष्ट ) हो जाय तो दूसरी आधि रखनी चाहिए, अथवा धन दाता को उसका धन लौटा देना चाहिए ॥६०॥ 'आधिः प्रणश्येद् द्विगुणे' ( व्य० ५८ ) इत्यस्यापवादमाह— चरित्रबन्धककृतं स वृद्ध्या दापयेद्धनम् । सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ ६१ ॥ चरित्रं शोभनाचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद् द्रव्यमात्मसा- त्कृतं पराधीनं वा कृतम् । एतदुक्तं भवति—धनिनः स्वच्छाशयत्वेन बहुमू- ल्यमपि द्रव्यमाधीकृत्याधमर्णेनाल्पमेव द्रव्यमात्मसात्कृतम् , यदि वाधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृत- मिति । तद्धनं स नृपो वृद्ध्या सह दापयेत् । अयमाशयः—एवं चं बन्धकं द्विगु- णीभूतेऽपि द्रव्ये न नश्यति, किंतु द्रव्यमेव द्विगुणं दातव्यमिति । तथा सत्यं- कारकृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकारः—'कारे सत्या- गदस्य' (पा० ६।३।७०) इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयमभि- सन्धिः—यदा बन्धकार्पणसमय एवेत्थं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं³ द्रव्यमेव दातव्यं नाधिनाशः' इति, तदा तद् द्विगुणं दापयेदिति । अन्यो- ऽर्थः । चरित्रमेव बन्धकं चरित्रबन्धकं । 'चरित्र' शब्देन गङ्गास्नानाग्निहोत्रा- दिजनितमपूर्वमुच्यते । यत्र तदेवाधीकृत्य यद्द्रव्यमात्मसात्कृतं⁴ तन्न तदेव द्विगु- णीभूतं दातव्यम् , नाधिनाश इति । आधिप्रसङ्गादन्यदुच्यते—सत्यंकारकृत- मिति । क्रयविक्रयादिव्यवस्थानिर्वाहाय यदङ्गुलीयकादि परहस्ते कृतं तद्व्यवस्था- तिकमे द्विगुणं दातव्यम् । तत्रापि येनाङ्गुलीयकार्पितं स एव चेद् व्यवस्थातिवर्ती तेन तदेव दातव्यम् । ५इतरश्चेद् व्यवस्थातिवर्ती तदा तदेवाङ्गुलीयकादि द्विगुणं प्रतिदापयेदिति ॥ ६१ ॥ भाषा—चरित्र बन्धक ( स्वेच्छा से कम मूल्य की वस्तु बन्धक लेकर अधिक धन देना या अधिक मूल्य की वस्तु बन्धक रखकर कम धन ऋण लेना ) होने पर वृद्धि के साथ धन दिलावे । सत्यकार (धन के दूना होने पर बन्धक नष्ट न होकर दूना धन देने की शर्त ) किया गया हो तो दूना धन दिलवाये ॥ ६१ ॥ १. प्रतिपाद्येत् । २. एवंविधं । ३. द्विगुणीभूतमेव द्रव्यं । ४. कृतं तदा तन्न । ५. इतरं चेत् ।