याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 286, कुल 782 में से
संदर्भ में पढ़ें२४० याज्ञवल्क्यस्मृतिः मन्यथा वैपरीत्येन मिथ्यैतदिति वदन्ति तस्य पराजयो ध्रुवो निश्चितः । यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति, तत्र प्रमाणान्तरेण निर्णयः कार्यः । न च राज्ञा साक्षिणः पुनः पुनः प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । यथाह—'स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोष- वर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥' इति ॥ ७९ ॥ भाषा—जिसकी ( जिस वादी की ) प्रतिज्ञा ( दावे ) को साक्षी सत्य करार दें वह विजयी होता है और जिस ( वादी ) की प्रतिज्ञा को वे असत्य बताते हैं उसकी निश्चित पराजय होती है ॥ ७९ ॥ 'अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः' ( व्य० ७९ ) इत्यस्यापवादमाह- उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । द्विगुणा वाऽन्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ ८० ॥ पूर्वोक्तलक्षणैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं ब्रूयुस्तदा पूर्वे साक्षिणः कूटा मिथ्यावादिनो भवेयुः । नन्वेतदनुपपन्नम् ; अर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमा- णान्तरान्वेषणेऽनवस्थादोषप्रसङ्गात्—'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥', 'यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥' ( ना० १।६३-६२ ) इति नारदवचनाच्च । उच्यते,-यदाऽर्थी प्रतिज्ञातार्थस्या- न्तरात्मसाक्षित्वेनानाविष्कृतदोषाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्वपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते ? उक्तं च—'यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः' इति ॥ यथा चक्षुरादिकरणदोषानध्यवसायेऽप्यर्थविसंवादात्तज्जनितस्य ज्ञानस्या- प्रामाण्येन करणदोषकल्पना तथेहापि; साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोप- देशाच्च ।—'साक्षिभिर्भाषितं वाक्यं सह सभ्यैः परीक्षयेत्' इति । कात्यायनेना- प्युक्तम्—'यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् । शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥' इति । क्रिया साक्षिलक्षणा, 'नार्थसम्बन्धिनो नाप्ताः' ( मनुः ८।६४ ) इति न्यायाद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवा- क्यशोधनं कर्तव्यम् ; वाक्यशुद्धिश्च सत्यार्थप्रतिपादनेन; 'सत्येन शुद्धयते १. स्वाभिप्रायेण प्रतिज्ञा । २. मिथ्यासाक्षिणो । ३. कारणं दुष्टं । ४. ज्ञानस्य प्रामाण्य । ५. वाक्यपरीक्षोप॑ । -