याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 288, कुल 782 में से
संदर्भ में पढ़ें२३२ याज्ञवल्क्यस्मृतिः निर्देष्टा, तत्प्रतिपक्षस्तदभाववादी प्रत्यर्थी, तत्राभावस्य भावसिद्धिसापेक्षसिद्धि- त्वाद्भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद्भावस्यैव साध्यत्वं युक्तम् ; अभावस्य^२ स्वरूपेण साध्यादिप्रमेयत्वाभावात् । अतश्चार्थिन एव क्रिया युक्ता । अपि चोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते; 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति । न चैकस्मिन्व्यवहारे द्वयोः क्रिया; 'नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः' इति स्मरणात् । तस्मात्प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वाऽन्यथा ब्रूयुरित्यनुपपन्नम् ॥ अथ मतम्-यत्र द्वावपि भावप्रतिज्ञावादिनौ 'मदीयमिदं दायादप्राप्तं मदीयमिदं दायादप्राप्त'मिति प्रतिज्ञावादिनोः पूर्वापरकालविभागा- नाकलिंतमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्या- काङ्क्षायां-'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवे- युस्तस्य साक्षिणः ॥' इति वचनेन यः पूर्वं निवेदयति, तस्य साक्षिणो ग्राह्या इति स्थिते, तस्यापवादः-'उक्तेऽपि साक्षिभिः साध्ये' इति । अतश्च पूर्वोत्त- रयोर्वा दिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववादिन एव साक्षिणः प्रष्टव्याः । यदा तु उत्तरवादिनः साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रति- वादिनः साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता; उभयोरपि भाववादि- त्वात्, चतुर्विधोत्तरविलक्षणत्वाच्च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन्व्य- वहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वयेऽ- प्यविरोध इति । तदप्याचार्यो नानुमन्यते- 'उक्तेऽपि साक्षिभिः साध्ये' इत्यवि- झाब्दादर्थात्प्रकरणाद्वाऽस्यार्थस्यानवगमादित्यलं प्रसङ्गेन ॥ ८० ॥ भाषा—साक्षियों के अपना वक्तव्य (बयान) दे लेने पर जो दूसरी प्रकृष्ट गुणवाले व्यक्ति या उनसे दूने व्यक्ति अन्यथा (उनके वक्तव्य के विप- रीत) कहें तो वे पहले के साक्षी कूट साक्षी हो जाते हैं ॥ ८० ॥ कूटसाक्षिणो दर्शितास्तेषां दण्डमाह— पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा । विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ ८१ ॥ यो धनदानादिना कूटान्त्सान्क्षिणः करोति स कूटकृत्, साक्षिणश्च ये तथा कूटान्ते विवादान्नाम विर्वादास्पदजयात्पराजये यो दण्डस्तत्र तत्रोक्तस्तं दण्डं १. वाभावनिरपेक्ष । २. अभावस्वरूपेण । ३. कस्मिन्विवादे । ४. पवादमाह । ५. प्याचार्या नानुमन्यन्ते । ६. विवादाद्विवादपराजयै, 'विवादास्पदपराजयै ।