याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 292, कुल 782 में से
संदर्भ में पढ़ें२३६ याज्ञवल्क्यस्मृतिः अथ लेख्यप्रकरणम् ६ भुक्तिसाक्षिणौ निरूपितौ, सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधम्— शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच्च द्विवि- धम्—स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं, अन्यकृतं ससाक्षि- कम् अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः ( १।१३५ )— 'लेख्यं तु द्विविधं ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्ससाक्षिकं सिद्धिर्देश- स्थितेस्तयोः ॥' इति । तत्रान्यकृतमाह— यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम् ॥ ८४ ॥ धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या 'इयता कालेनैतावद्दे- यम्', 'इयती च प्रतिमासं वृद्धिः'इति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमिति यावत् । कार्यं कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः; 'कर्ता तु यत्कृतं कार्यं सिद्ध्यर्थं तस्य साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाऽथ लेखकम् ॥' इति स्मरणात् ॥ ८४ ॥ भाषा—जब धनी और अधमर्ण ( ऋण ) में अपनी इच्छा से परस्पर कोई बात तय हुई हो ( जैसे ऋण भुगतान का समय, वृद्धि की दर आदि ) तो साक्षियों के सामने उसे लिख देना चाहिए । लेख में धनिक ( ऋणदाता ) का उल्लेख करें ॥ ८४ ॥ समामासतदर्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ ८५ ॥ अपि च, समा संवत्सरः, मासश्चैत्रादिः, तदर्धं पक्षः—शुक्लः कृष्णो वा, अहस्तिथिः प्रतिपदादिः, नाम धनिकर्णिकयोः, जातिर्ब्राह्मणत्वादिः, स्वगोत्रं वासिष्ठादिगोत्रम् , एतैः समादिभिश्चिह्नितम् , तथा सब्रह्मचारिकं बह्वृचादि- शाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम, 'आदि'ग्रहणाद् द्रव्यजातिसंख्याचारादेर्ग्रह णम् । 'एतैश्च चिह्नितं लेख्यं कार्यम्' इति गतेन संबन्धः ॥ ८५ ॥ १. मन्यहस्तकृतं । २. सगोत्रकैः । ३. धनिकाऽधमर्णिकयोः । ४. संख्यावारादेः ।