याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 336, कुल 782 में से
संदर्भ में पढ़ें२५० याज्ञवल्क्यस्मृतिः र्थांशभागिनी सा कर्तव्या । एतदुक्तं भवति—यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानंशो भवति, तस्य चतुर्थांशस्तस्या भवति । तद्यथा—यदि कस्यचिद् ब्राह्मोगस्यैका पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णी- यात् ; यदा तु द्वौ पुत्रौ एका च कन्या, तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्णीतः; अथ त्वेकः पुत्रो द्वे कन्ये, तदा पित्र्यं धनं त्रिधा विभज्य एकं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वाऽवशिष्टं सर्वं पुत्रो गृह्णातीत्येवं समानजा- तीयेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रिया- कन्या चैका, तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागंस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यदा तु द्वौ ब्राह्मणी- पुत्रौ क्षत्रियाकन्या चैका, तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्वं ब्राह्म- णीपुत्रा विभज्य ⁶गृह्णीतः ॥ एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । न च⁷ 'निजादंशाद्दश्वांशं तु तुरीयक'मिति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्वेति व्याख्यानं युक्तम् । मनुवच- नाविरोधात् ( ९।११८ )—'स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युर्भातृरः पृथक् । स्वात्स्वाद्दंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥' इति । अस्यार्थः—ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः चेभ्यः स्वजातिविहितेभ्योऽशेभ्यः 'चतुरों- ऽशान्हरेद्विप्र' ( मनुः ९।१५३ ) इत्यादिवक्ष्यमाणेभ्यः स्वात्स्वात्तदंशादात्मीया- दात्मीयाद्भागाच्चतुर्थं चतुर्थं भागं दद्युः । न चात्मीयभागादुद्धृत्य चतुर्थांशो देय इत्युच्यते, किंतु स्वजातिविहितादेकस्मादेकस्मादंशात्पृथक्पृथगेकस्याप्येकस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागक्लृप्तिरुक्तैव । 'पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणादवश्यदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानमेव विवक्षित- मिति चेन्न । स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाददाने प्रत्यवा- यश्रवणाच्चेति । यदपि कैश्चिदुच्यते—अंशदानविवक्षायां बहुभ्रातृकायाः ⁹बहु- धनत्वं, बहुभगिनीकस्य च निर्धनता प्राप्नोतीति, तदुक्तरीत्या परिहृतमेव ।
१. कस्यचिद्ब्राह्मणस्यैका । २. अथ तु । ३. गृह्णीयात् एवं । ४. पित्र्यं धनं । ५. गृह्णीयात् । ६. गृह्णीयाताम् । ७. नच दशांशं तु । ८. संस्कारोप- योगि । ९. बहुधनकत्वं ।