याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 346, कुल 782 में से
संदर्भ में पढ़ें२६० याज्ञवल्क्यस्मृतिः एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ १३६ ॥ पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः, तस्यापुत्रस्य स्वर्यातस्य पर- लोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनामनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु१ अनुलो- मजेषु सूतादिषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिष्वयं दायग्रहणविधिर्दायग्रह- णक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता 'पत्युर्नो यज्ञसंयोगे' (अ० ४।१।३३) इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश्च बह्व्यश्चेत्सजातीया विजातीयाश्च तदा यथांशं विभज्य धनं गृह्णन्ति३ । वृद्ध- मनुरपि पत्न्याः समग्रधनसंबन्धं वक्ति—'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति । वृद्धविष्णुरपि— 'अपुत्रधनं पत्न्यभिगामि, तदभावे दुहितृगामि, तदभावे पितृगामि, तदभावे भ्रातृगामि' इति । कात्यायनोऽपि—'पत्नी पत्युर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । तथा 'अपुत्रै५स्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥' इति । बृह- स्पतिरपि (बृह. २५।४८)—'कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' एतद्विरुद्धानीव६ वाक्यानि लक्ष्यन्ते (ना० १३।- २५-२६) 'भ्रातृणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा । विभजेरन्धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु ॥' इति पत्नीसद्भावेऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९।१८५)—'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इत्यपुत्रस्य धनं पितुर्भ्रातुर्वेति दर्शितम् । तथा (मनुः ९।- २१७)—'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितु- र्माता हरेद्धनम् ॥' इति मातुः पितामह्याश्च धनसंबन्धो दर्शितः । शङ्खनापि— 'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी' इति भ्रातॄणां पित्रोर्ज्येष्ठायाश्च पत्न्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायने- नापि—'विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् ॥' इत्येवमादीनां विरुद्धाथानां वाक्यानां धारेश्वरेण व्यवस्था दर्शिता—'पत्नी गृह्णीयात्' इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । १. दिष्वनुलोमजेषु सूतादिषु प्रतिलोमजेषु ब्राह्मणादिषु अयं । २. भाक् विवाह । ३. गृह्णन्ति यथा । ४. धनग्रहणं । ५. स्यार्यकुलजा । ६. विरुद्धानि च वाक्यानीह ।