याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 356, कुल 782 में से
संदर्भ में पढ़ें३०० याज्ञवल्क्यस्मृतिः पुत्रपत्न्यादिसंसृष्टिनां यद्दायग्रहणमुक्तं, तस्यापवादमाह— क्लीबोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः ॥ १४० ॥ क्लीबस्तृतीया प्रकृतिः । पतितो ब्रह्महादिः, तज्जः पतितोत्पन्नः, पङ्गुः पादविकलः, उन्मत्तकः वातिकपैत्तिकश्लैष्मिकसांनिपातिकग्रहावेशलक्षणैरुन्मा- दैरभिभूतः, जडो विकलान्तःकरणः, हिताहितावधारणाऽक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः, अचिकित्स्यरोगोऽप्रतिसमाधेययक्ष्मदिरोगग्रस्तः, 'आद्य'शब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां ग्रहणम् । यथाऽऽह वसिष्ठः ( १७।५२ )—'अनंशास्त्वाश्रमान्तरगताः' इति । नारदोऽपि ( १३।२१ )—'पितृद्विट् पतितः षण्ढो यश्च स्यादौपपातिकः । औरसा अपि नैतेऽशं लभेरन् क्षेत्रजाः कुतः ॥' इति । मनुरपि ( ९।२०१)—'अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूंकाश्च ये च केचिन्निन्द्रियाः ॥' इति । निरिन्द्रियो निर्गतमिन्द्रियं यस्माद् व्याध्यादिना स निरिन्द्रियः । एते क्लीबादयोऽनंशाः रिक्थभाजो न भवन्ति । केवलमशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः । 'सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥' ( ९।२०२ )—इति मनुस्मरणात् । अत्यन्तं यावज्जीवमित्यर्थः । एतेषां विभागात्प्रागेव दोषप्राप्तावनं- शत्वमुपपन्नं न पुनर्विभक्तस्य । विभागोत्तरकालमप्यौषधादिना दोषनिर्हरणे भागप्राप्तिरस्त्येव ।—'विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ( व्य० १२२ ) इत्यस्य समानन्यायत्वात् । पतितादिषु तु पुंलिङ्गत्वमविवक्षितम् । अतश्च पत्नीदुहितृमात्रादीनामप्युक्तदोषैर्दुष्टानामनंशित्वं वेदितव्यम् ॥ १०४ ॥ भाषा—नपुंसक, पतित, पतित का पुत्र, पङ्गु, पागल, जड़, अन्धा, असाध्य रोग से ग्रस्त ( औरस भाइयों को भी ) अंश न देकर केवल उनका भरण-पोषण करना चाहिए ॥ १४० ॥ क्लीबादीनामनंशित्वात्तत्पुत्राणामप्यनंशित्वे प्राप्ते इदमाह— औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः । एतेषां क्लीबादीनामौरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिक्ले- ब्यादिदोषरहिता भागहारिणोऽशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः पुत्रः संभवत्यन्येषामौरसा अपि । 'औरस-क्षेत्रज'योर्ग्रहणंमितरपुत्रव्युदासार्थम् ॥ १. भर्तव्यास्तु निरंशकाः । २. संनिपातग्रहा । ३. यक्ष्मादिरोग । ४. स्यादुपयात्रितः । ५. दोषाणामनंशित्वं ।