भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 368, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 368

३१२ . याज्ञवल्क्यस्मृतिः अपह्रियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अत एवाह—'वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥' इति ॥ १५५ ॥ ० भाषा—मर्यादा ( खेतों के बीच मे बनी हुई मेंड़ ) को तोड़ने और सीमा को पार करने ( अधिक जोतने ) और धमकी देकर खेत छीन लेने पर क्रमशः अधम, उत्तम और मध्यमसाहस का दण्ड समझना चाहिए ॥ १५५ ॥ यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुमि- च्छति तन्निषेधतः क्षेत्रस्वामिन एव दण्ड इत्याह— न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकेः । परभूमिं १हरन्कूपः स्वल्पक्षेत्रो बहूदकः ॥ १५६ ॥ परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जलप्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेदोषपीडाकरो बहूपकारकश्च भवति । कूपश्चाल्पक्षेत्रव्यापित्वेना- ल्पबाधो बहूदकत्वेन कल्याणकारकश्चेतो २बहूदको नैव निवारणीयः । 'कूप' ग्रहणं च वापोपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनरसौ ३सर्वक्षेत्रवर्तितया बहु- बाधो नद्यादिसमीपक्षेत्रवर्तितया वाऽल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं भवति । सेतोश्च द्वैविध्यमुक्तं नारदेन ( १५।१८ )—'सेतुश्च द्विविधो ज्ञेयः खेयो बन्धस्तथैव च । तोयप्रवर्तनात्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥' इति यदा त्वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्यं नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाऽऽह नारदः ( ११।२०-२१ )—'पूर्व- प्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्त्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुवस्तद्वंश्ये वाऽपि मानवे । राजानमामन्त्र्य ततः कुर्यात्सेतु- प्रवर्त्तनम् ॥' इति ॥ १५६ ॥ भाषा—थोड़ी भूमि के लगने से बहुत कल्याण देने वाला सेतु दूसरे के भूमि में बनाने पर भी भूमि का स्वामी मना न करे । दूसरे की भूमि लेकर कुआँ बनवाने पर भूमि की हानि कम होती है और उससे जल का लाभ अधिक होता है ॥ १५६ ॥ क्षेत्रस्वामिनं प्रत्युपदिष्टम् , इदानीं सेतोः प्रवर्त्तयितारं प्रत्याह— स्वामिने ४योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तयेत् । उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥ १. हरेत् । २. बहूपकारको नैव । ३. समग्रक्षेत्र । ४. अविनिवेद्यैव ।