भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 376, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 376

३२० याज्ञवल्क्यस्मृतिः ग्राहिते हर्तरि किं कर्तव्यमित्यत आह— विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माद्यस्तंस्य विक्रयी ॥ १७० ॥ यद्यसौ गृहीतः क्रेता 'न मयेदमपहृतम्, अन्यसकाशात्क्रीतम्' इति वक्ति, तदा तस्य क्रेतुर्विक्रेतृदर्शनमात्रेण शुद्धिर्भवति । न पुनरसावभियोज्यः, किंतु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः; यथाऽऽह बृहस्पतिः—'मूले समाहृते क्रेता नाभियोज्यः कथंचन । मूलेन सह वादस्तु नाष्टिकस्य विधीयते ॥' इति ॥ तस्मिन् विवादे यद्यस्वामिविक्रयनिश्चयो भवति, तदा तस्य नष्टापह- तस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिकः स्वकीयं द्रव्यमवाप्नोति; नृपश्चापराधानुरूपं दण्डं; क्रेता च मूल्यमवाप्नोति । अथासौ देशान्तरगतस्तदा योजनसंख्यया आनयनार्थं कालो देयः; 'प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् । मूलानयनकालश्च देयस्तत्राध्वसंख्यया ॥' इति स्मरणात् ॥ अथाविज्ञातदेशतया मूलमाहर्तुं न शक्नोति, तदा क्रयं शोधयित्वैव शुद्धो भवति; 'अलमाहार्यमूलस्तु क्रयमेव विशोधयेत्' इति वचनात् ॥ यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति मूलं च न प्रदर्शयति, तदा स एव दण्डभाग्भवति ॥ इति; 'अनुपस्थापयन्मूलं क्रयं चाप्यविशोधयन् । यथाऽ- भियोगं धनिने धनं दाप्यो दमं च सः' ॥ इति मनुस्मरणात् ॥ १७० ॥ भाषा—यदि ऐसी वस्तु को बेचने वाला अपने पूर्व के विक्रेता को दिखला दे तो छूट जाता है । राजा इस विक्रेता से स्वामी को वस्तु दिलावे क्रेता अपना मूल्य उस व्यक्ति से प्राप्त कर लेता है जिसने उसे पहले बेचा हो ॥ १७० ॥ 'स्वं लभेतान्यविक्रीतम्' (व्य० १६८) इत्युक्तं, तल्लिप्सुना किं कर्तव्य- मित्यत आह— आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तंस्य राज्ञे तेनाविभाविते ॥ १७१ ॥ आगमेन रिक्थक्रयादिना उपभोगेन च 'मदीयमिदं द्रव्यं तच्चैवं नष्टमप- हतं वा इत्यपि³ भाव्यं साधनीयं तत्स्वामिना । अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः-पूर्वस्वामी नष्टमात्मीयं साधयेत् , ततः क्रेता चौर्यपरिहारार्थं मूल्यलाभाय च विक्रेतारमानयेत् , अथानेतुं न शक्नोति तदात्मदोषपरिहाराय क्रयं ⁴साधयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति ॥ १७१ ॥ १. स्तन्न । २. स्तन्न राज्ञस्तेनापि भाव्यते । ३. वेति भाव्यं । ४. शोधयित्वा ।