याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 383, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३२७ भाषा-ऊन और कपास के मोटे सूत से कम्बल आदि बनाने में सौ पल में दस पल, मोटाई में मध्यम श्रेणी के सूत में पाँच पल और पतले सूत से बनी वस्तु में सौ पल में तीन पल की वृद्धि समझना चाहिए ॥ १७९ ॥ द्रव्यान्तरे विशेषमाह- कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिश्श्च कौशेये वोल्कलेषु च ॥ १८० ॥ कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रहस्तिकादिकं चित्रं ३ सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । यत्र प्रावारादौ ४ रोमाणि बध्यन्ते स रोमबद्धः, ५ तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वङ्निर्मितेषु वस्त्रेषु वृद्धिक्षयौ न स्तः, किंतु यःवहयनार्थं कुविन्दादिभ्यो दत्तं तावदेव प्रद्यादेयम् ॥ १८० ॥ भाषा-कसीदाकारी, और किनारों में रोम बाँधने में तीसवें भाग का क्षय बताया जाता है । कौशेय और वल्कल के वस्त्र बनवाने में न तो कमी होती है और न वृद्धि ही होती है ॥ १८० ॥ द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः सामान्येन हासवृद्धिज्ञानो- पायमाह- देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणां कुशला ७ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ १८१ ॥ शाणक्षौमादौ द्रव्ये नष्टे ह्रासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत्कल्प- यन्ति तदसंशयं शिल्पिनो दाप्याः ॥ १८१ ॥ भाषा-द्रव्य के नष्ट हो जाने पर देश, काल, भोग उस वस्तु की सारता और असारता जानकर उस द्रव्य के विषय में विशेष ज्ञान रखने वाले जितना कहें उतना ही ( शिल्पियों को ) दिलाना चाहिए ॥ १८१ ॥ इति क्रीतानुशयप्रकरणम् । अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४ सांप्रतमभ्युपेत्याशुश्रूषाख्यमपरं विवादपदमभिधातुमुपक्रमते तत्स्वरूपं च नारदेनोक्तम् ( ५।१ ) - 'अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशु- १. वृद्धिः स्यात् । २. वाल्कले तथा. वहकलेषु. । ३. चित्रं सूत्रैः । ४. प्रान्तादौ । ५. रोमबन्धः । ६. यावद्वानार्थं । ७. यत्तद्दाप्या असंश्यम् यत्तद्दाप्यमृणद्वयम् ।