याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 408, कुल 782 में से
संदर्भ में पढ़ें३५२ याज्ञवल्क्यस्मृतिः द्राक्षातिमुक्ताप्रभृतयः, प्रतानाः काण्डप्ररोहरहिताः १सरलयायिन्यः सारिवाप्रभृ- तयः, ओषध्यः फलपाकावसानाः शालिप्रभृतयः, वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः, एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः ॥ २२९ ॥ भाषा—गुल्म मालती जैसी ( छोटी और घनी लताएँ ), गुच्छ ( कुरण्टक जैसी लपटाने वाली लता ), द्रुप ( करवीर जैसी सीधी लता ), द्राक्षा जैसी बढ़ी लता, सीधी चलने वाली सारिवा आदि लताएँ, शालि आदि ओषधियों और गुडूची आदि विरधों को पूर्वोक्त स्थानों पर काटने का दण्ड उपरोक्त दण्ड से आधा होता है ॥ २२९ ॥ इति दण्डपारुष्यप्रकरणम् । अथ साहसप्रकरणम् २० संप्रति साहसं नाम विवादपदं व्याचिख्यासुस्तल्लक्षणं तावदाह— सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । सामान्यस्य साधारणस्य ३यथेष्टविनियोगानर्हत्वाँविशेषेण परकीयस्य द्रव्य- स्यापहरणं साहसम् । कुतः ? प्रसभहरणात् प्रसह्य हरणात्, बलावष्टम्भेन हरणादिति यावत् ॥ एतदुक्तं भवति—राजदण्डं जनाक्रोशं चोल्लङ्घ्य राजपुरुषे- तरजनसमक्षं यत्किंचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहसमिति साहस लक्षणम् । अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाण- त्वात्साहसत्वमिति । नारदेनापि साहसस्य स्वरूपं विवृतम् (१।१४)—‘सहसा क्रियते कर्म यत्किंचिद्बलदर्पितैः । तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥’ इति । तदिदं साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणेषु व्यासक्तमपि बलदर्पा- वष्टम्भोपाधितो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । तस्य च दण्डवै- चित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैव विवृतम् ( १४।३-९ )—‘तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपोप- मर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ वासःपश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥ व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् । प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥ तस्य दण्डः क्रियापेक्षः प्रथमस्य १. शिखायायिन्यः । २. हरणं साहसं । ३. यथेष्टविनियोग । ४. त्वाद्द्विशेषेण । ५. पाचिना भिद्यते ।