भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 411, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 411

सामान्य वस्तु को दबा लेने वाला, दासी का गर्भपात कराने वाला; और पिता, पुत्र, बहन, भाई, पति, पत्नी आचार्य और शिष्य के निर्दोष होने पर भी उनका ( एक दूसरे का ) त्याग करने वाला — ये सभी सौ। पण दण्ड के भागी होते हैं ॥ २३४-२३७ ॥ इति साहसप्रकरणम् ॥ साहसप्रसङ्गात्तत्सदृशापराधेपु निर्णेजकादीनां दण्डमाह— वसानस्त्रीन्पणान्दण्ड्यो नेजकस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान्दश ॥ २३८ ॥ नेजको वस्त्रस्य धावकः, स यदि निर्णेजनार्थं समर्पितानि वासांसि स्वयं- माच्छादयति तदाऽसौ पणत्रयं दण्ड्यः । यः पुनस्तानि विक्रीणीते अवक्रयं वा 'एतावत्कालमुपभोगार्थं वस्त्रं दीयते, मह्यमेतावद्धनं देयम्' इत्येवं भाट- केन यो ददाति, आधित्वं वा नयति, स्वसुहृद्भ्यो याचितं वा ददात्यसौ प्रत्यप- राधं दशपणान्दण्डनीयः । तानि च वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनी- यानि न पाषाणे, नच व्यत्यसनीयानि; नच स्वगृहे वासयितव्यानि; इतरथा दण्ड्यः । ( ८।३९६ )—'शाल्मलीफलके श्लक्ष्णे निर्दद्याद्वासांसि नेजकः । नच वासांसि वासोभिर्निहरेन्न च वासयेत् ॥' इति मनुस्मरणात् ॥ यदा पुनः प्रमा- दात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्—'मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः । द्विःपादस्त्रिस्तृतीयांशश्चतुर्धौतेऽर्धमेव च ॥ अर्धक्षयात्तु परतः पादां- शापचयः क्रमात् । यावत्क्षीणदशं जीर्णं जीर्णस्यानियमः क्षयः ॥' इति । अष्ट- पणक्रीतस्य सकृद्धौतस्य वस्त्रस्य नाशितस्याष्टमभागपोनं मूल्यं देयम् । द्विधौतस्य तु पादोनं, त्रिधौतस्य पुनस्तृतीयांश न्यूनम् । चतुर्धौतस्यार्धं पण- चतुष्टयं देयम् । ततः परं प्रतिनिर्णेजनमवशिष्टं मूल्यं ४पादपादापचयेन देयम् । यावज्जीर्णं जीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २३८ ॥ भाषा—यदि धोबी धोने के लिए दिये गये दूसरों के वस्त्रों को स्वयं पहनता है तो उसे तीन पण दण्ड लगता है; यदि वह उसे बेचता है, भाड़े देता है, बन्धक रखता है या मँगनी देता है तो दश पण दण्ड लगता है ॥२३८॥ पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । अन्तरे चं तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥ २३९ ॥ १. विक्रयापक्रमाधानयाचितेषु ( = भाटकेनार्पणमपक्रमः, आधमनमा- धानम् ) २. शाल्मले फलके । ३. अष्टमभागोनं पणं मूल्यं । ४. पादाप- चयेन । ५. द्विशतो दमः । ६. तु । ७. व्यष्टशतो दमः । २३ या०