भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 439, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 439

(अर्थात् किसी विशेष पुरुष को सौंपी गई) दासी से संभोग करे तो उस दासी के गम्य होने पर भी पुरुष को पचास पण दण्ड लेवे ॥ २९० ॥ ‘अवरुद्धासु दासीषु’ (व्य० २९०) इत्यनेन दासीस्वैरिण्यादिभुजिष्याभि- गमने दण्डं विदधतस्तत्स्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तं तस्यापवादमाह— प्रसह्म दास्यभिगमे दण्डो दशपणः स्मृतः । बहूनां यद्यकामाऽसौ चतुर्विंशतिकः पृथक् ॥ २९१ ॥¹ पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्म बला- त्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव ²एकामनिच्छन्तीमपि बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस्तदिच्छया भृतिं दत्त्वा पश्चादनिच्छन्तीमपि बलाद्व्रजन्ति तदा तेषाम- दोषः; यदि व्याध्याद्यभिभवस्तस्या न स्यात्ः ‘व्यथिता सश्रमा व्यग्रा राजकर्मपरायणा । आमन्त्रिता चेन्नागच्छेद्दण्ड्या वडवा स्मृता ॥’ इति नारदवचनात् ॥ २९१ ॥ भाषा—(पुरुष संभोग से जीविका चलाने वाली स्वैरिणी) दासियों से बलपूर्वक (बिना धन दिये ही) संभोग करने का दण्ड दस पण कहा गया है। यदि अनेक पुरुष मिलकर न चाहने वाली स्वैरिणी दासी के साथ बलात्कार करें तो उनमें से प्रत्येक से चौबीस पण दण्ड लेवे ॥ २९१ ॥ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ २९२ ॥ यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं दद्यात् तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव । —‘शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन्दत्तशुल्कोऽपि शुल्कहानिमवाप्नुयात् ॥’ इति तेनैवोक्तम् । तथाऽन्योऽपि विशेषस्तेनैव दर्शितः—‘अप्रयच्छंस्तथा शुल्कमनुभूय पुमान्स्त्रियम् । अक्रमेण च संगच्छन् ³पाददन्तनखादिभिः ॥ अयोनौ वाऽभिगच्छेद्यो बहुभिर्वाऽपि वासयेत् । शुल्क- मष्टगुणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना यास्तत्र कामुकास्तद्गृहो- षिताः । तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥’ इति ॥ २९२ ॥ भाषा—शुल्क लेकर (और स्वस्थ होने पर भी) शुल्क देने वाले पुरुष से संभोग की इच्छा न रखने वाली वेश्या शुल्क का दूना धन देवे। १. अयोनौ गच्छतो...चाधिमेहतः...॥ २९२ ॥ २. मनभिलषन्तीं । ३. घातदन्तनखा ।