भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 441, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 441

व्यवहाराध्यायः ३८५ वशे ॥'इत्यादि ॥ यद्यपि स्त्रीपुंसयोः परस्परमर्थिप्रत्यर्थितया १'नृपसमक्षं व्यवहारो निषिद्धः, तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दण्डा- दिना दम्पती निजधर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवतीति व्यव- हारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच्च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥ सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन (१७.१-४)-'प्रकीर्णकेषु २विज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्त- त्कर्मकरणं तथा ॥ पुरःप्रदानं संभेदै३ः प्रकृतीनां तथैव च । पाखण्डिनैगमश्रेणि- गणधर्मविपर्ययाः ॥ पित्रापुत्रविवादश्च प्रायश्चित्तव्यसंक्रमः । प्रतिग्रहविलोपश्च कोपश्चाश्रमिणामपि ॥ वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा । न दृष्टं यच्च पूर्वेषु सर्वं तत्स्यात्प्रकीर्णके ॥' इति ॥ प्रकीर्णकं विवादपदे ये विवादा राजाज्ञोल्लङ्घन- तदाज्ञाकरणादिविषयास्ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्तमानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् ॥ एवं च वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्यर्थाल्लक्षितं भवति ॥ तत्रापराधविशेषेण दण्डविशेषमाह— ४ऊनं ५वाऽभ्यधिकं ६वाऽपि लिखेद्यो राजशासनम् । पारदारिकचौरै७ वा मुञ्चतो दण्ड उत्तमः ॥ २९५ ॥ राजदत्तभूमेर्निबन्धस्य वा परिमाणान्यूनत्वमाधिक्यं वा प्रकाशयन् राज शासनं योऽभिलिखति, यश्च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति तावुभावुत्तमसाहसं दण्डनीयौ ॥ २९५ ॥ भाषा—जो राजा की आज्ञा को घटा-बढ़ाकर लिखता है और जो परायी स्त्री से व्यभिचार करने वाले या चोर को पकड़ करके भी छोड़ देता है उसे उत्तम साहस का दण्ड होता है ॥ २९५ ॥ प्रसङ्गान्नृपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह— ८अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ २९६ ॥ १. नृपसमीपं । २. र्णके पुनज्ञेया । ३. भेदश्च । ४. न्यूनं वा । ५. वाऽपि यो लिखेद्वाज । ६. वाऽप्यधि । ७. चौरौ । ८. द्विजं प्रदूष्याभक्ष्येण दण्ड्य उत्तमसाहसम् । क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्धि- कम् । अभक्ष्यैदूषयन् विप्रं दण्ड उत्तमसाहसम् ।